SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः। आहारे जपकाले च पादुके परिवर्जयेत् ॥ आरुह्य पादुके यस्तु गृहात्परगृहं व्रजेत् । छेत्तव्यौ चरणौ तस्य नान्यो दण्डो विधीयते । इति । पूर्वश्चकारो देवतायतनसंग्रहार्थः । द्वितीयो होमादिसंग्रहार्थः । पाधानवत्सोमयागादावपि. पित्रादिष्वकृतसोगयागादिषु विद्यमानेषु पुत्रादेरनधिकारः । तथा च मण्डन:-- परीष्टिदोषसंप्राप्तौ न यष्टन्य कदाचन । दशेष्टि पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम् ॥ अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् । न कुर्याजनके ज्येष्ठे सोदरे वाऽप्यकुर्वति ।। इति । दर्शपौर्णमासयोः पृथगुपादानं कृते पौर्णमासे प्रतिबन्धादिना चाकसदर्शेऽपि दोषं वक्तुम् । एवमग्रे संग्रहाग्निहोत्रयोः कृताधानस्याकृताग्रिहोत्र. स्यापि । विवाहग्रहणं भ्रातमात्रविषयम् । प्रथमग्रहणं पुनराधानादौ पित्रादेरकृतपुनराधानत्वेऽपि पुत्रादेरदोष इति दर्शयितुम् । अपिशब्देन पिता. महः संगृहीतो भवति । सोदर इत्यनेनासोदराणामदोप इति दर्शितम् । अत एव तत्रैवोक्तम्-- क्षेत्रजादावनीजाने विद्यमानेऽपि सोदरे। नाधिकारविघातोऽस्ति भिन्नोदर्येऽपि चौरसे ॥ इति । पूर्वार्ध क्षेत्रजादीनां पितरमभिप्रेत्य सोदरत्वं द्वितीया दत्तकादीनां मातृतोऽप्यसोदरत्वम् । यागादावप्याज्ञायां न दोष इति सत्रैव--- पिता यस्याग्रजो भ्राता न कुर्याद्वा पितामहः । तपोऽग्निहोत्रं यज्ञं वाऽऽज्ञया कुर्यात्कठाश वात् ।। इति । निमित्तविशेषेषु त्वाज्ञां विनाऽप्यदोषः मुमन्तुनोक्तः-- व्यसनासक्तचित्तो वा नास्तिको वाऽथवाऽग्रजः। कनीयान्धर्मकामस्तु आधानमथ कारयेत् ।। इति । अग्रज इति पित्रादेरुपलक्षणम् । आधानमिति यागादेः । अथवेति स्मृत्यन्तरोक्तजात्यन्धबधिरपङ्ग्वादिसंग्रहार्थम् । आज्ञायामपि कचिददोषः कचिच्च दोष इत्युक्तं मण्डनेन-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy