________________
भट्टगोपीनाथदीक्षितविरचितःज्येष्ठे श्रद्धाविहीने सत्याधेयं तदनुज्ञया ।
पितुः सत्यप्यनुज्ञाने नाऽऽदधीत कदाचन ।। इति । अत्र च पित्रादावधिकारिण्यपि तदाज्ञया पुत्रादिराधानादि कुर्यात् । यद्वा भ्रात्रनुज्ञयव कुर्यात्र पित्रनुज्ञयति तात्पर्यमिति केचित् । अन्ये तु निषेधस्तावत्सविषयस्तत्राधिकारिणि पुत्रादौ विशेषतः प्रतिप्रसवाभावात्पुत्रादेरनधिकार एव । द्विविधोऽनधिकारी जात्यन्धादिर्नास्तिकादिश्च । तत्र जात्यन्धादौ तु पित्रादावनधिकारिण्यपि तदाज्ञयाऽऽधाना. यधिकारः । नास्तिकादौ तु पित्रादावनधिकारिणि सत्यत्यन्तनास्तिक्ये. ताऽऽधानादिकरणसंभावनानिवृत्तावप्यग्रजानुमत्येवाधिकारः। पितुस्त्वतुमत्याऽपि न । अत एव श्रद्धया हीन इत्युक्तम् । एतद्विषयमेव च।
दारैस्तु परिविद्यन्ते नाग्रिहोत्रेण नेज्यया। इति हारीतवचनमग्रजे विवाहामिहोत्रयोर्विशेषाभिधानार्थत्वेन द्रष्टव्यम् । पश्चाद्विवाहे दोष एव । आधानादौ नेति । यदा तु कादाचित्कनास्तिक्येन पित्रादावाधानादिकरणसंभावना तदाऽनुशयाऽपि नाधिकारः । अधिकारिणि तु पित्रादौ दुरापास्त एवानुज्ञयाऽधिकार इति प्राहुः। श्रुतौ-न म्लच्छित नापभाषित म्लेच्छो ह वा एष पदपशब्द इति । यणिस्तर्वाणो नामर्पयो बभूवुः । यद्वा नस्तद्वा न इति प्रयोक्तव्ये यणिस्तर्वाण इति प्रयुञ्जते । यज्ञकर्मणि नापभाषन्त इति श्रुतेः कर्मकाल एवापभाषणनिषेध इति केचित् । तेऽसुरा हेलयो हेलय इति वदन्तः पराबभूवुरित्यकर्मकालेऽपि दोषश्रुतेरकर्मकालेऽप्यपभाषणे दोष इत्यन्ये । मन्त्रार्थ विचारपूर्वकमेव क्रियाः कर्तव्या अन्यथा दोषः । तया च व्यासः
मन्त्रार्थमनुसंधाय जपहोमादिकाः क्रिया।
मनीषिभिः प्रकर्तव्या अन्यथा नरको भवेत् ॥ इति । ऋष्यादिस्मरणमपि कार्यम्
आर्ष छन्दो दैवतं च विनियोगं मनोस्तथा । ब्राह्मणेन प्रयत्नेन वदितव्यं विपश्चिता ॥ अविदित्वा तु यः कुर्याधाजनाध्यापने जपम् । होमसंध्यार्चनादीनि तस्य त्वत्सं फलं भवेत् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com