________________
उपोद्घातः । इनि दक्षोक्तेः । तस्य कर्तुः। अविदित्वा मुनि छन्दो दैवतं योगमेव च । योऽध्यापये द्यजेद्वाऽपि पापीयाञ्जायते हि सः ॥ ब्राह्मण विनियोगं च च्छन्द आर्ष च दैवतम् ।
अज्ञात्वा पश्च यो मन्त्रे न स तत्फलमश्नुते ।। इति चन्द्रिकायां व्यासोक्तेश्च । ऋष्यादिज्ञानस्याऽऽवश्यकत्वं छन्दोगा अप्यधीयते-यो ह वा अविदितायच्छन्दोदेवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुवा भवति गर्ने वा पात्यते प्रवा मीयते पापीयान्भवति तस्मादेतानि मन्त्रे विदध्यादिति । आर्षेयमृषिसंबन्धम् । छन्दो गायच्यादि । दैवतं प्राजापत्यादि । ब्राह्मणं विनियोजकं वाक्यम् । तत्रयस्तैत्तिरीयशाखिभिः काण्डानुक्रमणिकायां द्रष्टव्याः । यस्य मन्त्रस्यानेककाण्डेषु पाठस्तत्र विकल्पः समुच्चयो वा । देवता तु मन्त्रलिङ्गाद्वचनबलाद्वा । छन्दस्तु दैवासुरमाजापत्यार्षभेदेन प्रत्येकं चतुर्विधम् । अक्षरभेदाणभेदाभिनं पिङ्गलशास्त्रात्समानन्यायसत्त्व ऋग्वेदानुक्रमणिकातश्च । मन्त्रेषु यत्र स्पष्टं लिङ्ग नास्ति होमादौ तत्राग्निरेव देवता । कल्पसारकारोक्तेः। कुत्रचिद्वचनवलान्मन्त्रगतदेवतां परित्यज्यान्यदेवतापरत्वमप्यन्द्रीन्यायेन केनापि साम्येनेति द्रष्टव्यम् । ब्राह्मण तु प्रत्यक्षं तत्तन्मन्त्रविषये प्रायशोऽस्त्येव । अप्रत्यक्षं तु कल्पसूत्रकारप्रत्यक्षमिति तद्विधायकवाक्यरूपमेव । विनियोगस्तु सुप्रसिद्ध एव ।
न च स्मरेदृषि छन्दः श्राद्ध वैतानिके मखे ।
ब्रह्मयज्ञे वैश्वदेवे तथा तर्पणकर्मणि ।। इति कृष्णभट्टीकारधृतसंग्रहवचनाच्छ्राद्धादौ स्मरणं न कर्तव्यमिति केचित् । अन्ये त्वेतस्य वचमो निर्मलत्वादृष्यादिस्मरणमेतेष्वपि कर्तव्यमेव । कुर्वन्ति च सामगाः । न चैते छन्दोगब्राह्मणबलात्कुर्वन्तीति वाच्यम् । निषेधवचनस्य निर्मूलत्वेन याज्ञवल्क्योक्ताद्यस्मरणे दोषस्य प्रबलत्वेन चैतस्य ब्राह्मणस्य होलाकाधिकरणन्यायेन सर्ववेदविषये प्रवृत्तौ बाधक भावात् । तस्मात्सर्वैरप्यविशे. पादृष्यादिस्मरणमेतेष्वपि कर्तव्यमेवेत्याहुः । न च यजुश्छन्दो न विद्यत इति निषेधात्कथं याजुषाणां छन्दःस्मरणमिति वाच्यम् । एतस्य यजु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com