________________
भट्टगोपीनाथदीक्षितविरचितः -
वेदान्तर्गतय जुष्परत्वेन तदन्तर्गतात्रिपरत्वाभावात् । विद्यारण्यैस्तैत्तिरीय संहितामथमप्रपाठकान्तिमानुवाकव्याख्याने तथा मदनमहार्णवे कूश्माण्डगणहोममन्त्र रुद्रप्रश्नचमकप्रश्नानां कर्मविपाकप्रयोगे तथा कौण्डपेन श्रौत दर्शपूर्णमासादिमन्त्राणां श्रौतकर्मणि च्छन्दसः प्रदर्शनाच्च । न च यावतीषु श्रुतिषु ऋष्यादिप्रदर्शितमस्ति तत्रैवास्तु । अन्यत्र तत्स्मरणे किं प्रमाणमिति वाच्यम् । अतिप्रामाणिकैर्विद्यारण्यमहार्णव कारकोंपादिभिः प्राचीनैस्तदतिरिक्तेष्वप्यृष्यादिस्मरणस्य प्रदर्शितत्वेन तासां श्रुतीनामुपलक्षणपरत्वमेव तैः स्त्रीकृतमित्यस्यार्थस्यावगमात् । सांत्रेष्वृष्यादिस्मरणं नेति प्रयोगपारिजातकारः । यदि कदाचिहण्याद्यस्फूर्तिस्तदा यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता यदक्षरपरिमाणं तच्छन्द इति सर्वानुक्रमणिकोक्तमविरोधाद्यजुर्वेदिभिरपि स्वीकार्थम् । तत्र स्मरणे क्रमचतुष्टयम् । ओमित्येकाक्षरं ब्रह्म । अग्निर्देवता । ब्रह्म इत्यार्थम् । गायत्रं छन्दः । परमात्मा स्वरूपम् । सायुज्यं विनियोग इत्यत्र देवता ऋषिश्छन्द इति दर्शनादयमेकः क्रमः । गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवतत्यत्र च्छन्द ऋषिर्देवतेति क्रमदर्शनादयमप्येकः क्रमः । यो ह वा अविदितार्षेयच्छन्दोदैवत ब्राह्मणेनेति श्रुतादृपिछन्दो देवतेत्येवं क्रमदर्शनादयमध्येकः क्रमः । ऋषिदैवतच्छन्दांस्यनुक्रमिष्याम इति सर्वानुक्रमण्यामृषिर्देवता छन्द इति क्रमदर्शनादयमप्येकः क्रमः । इत्येवं क्रमचतुष्टयम् । तत्र तैत्तिरीयैः क्रमचतुष्टयमध्य इच्छया यः कश्चन क्रमः स्वीकार्यः । प्रणव गायत्र्योस्तु क्रमविशेषप्रदर्शनं तयोरेव नान्यत्रेत्येवं स्वीकारेऽन्त्यं क्रमद्वयमेवेति द्रष्टव्यम् । ऋषिच्छन्दःशब्दार्थों निरुक्तकारेण दर्शितः - ऋपिर्दर्शनात्स्तोमान्द दर्शेत्यपमन्यव इति । छन्दांसि च्छादनादिति च । मन्त्रास्तु त्रिविधा :ऋचः सामानि यजूंपीति । तेषां लक्षणमुक्तं द्वितीयाध्याये प्रथमे पादे जैमिनिना — तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामाख्या । शेपे यजुःशब्द इति । - तच्चोदकेषु मन्त्राख्या । शेषे ब्राह्मणशब्द इति सूत्राभ्यां यथायथं वेदभागयोर्मन्त्रब्राह्मणयोर्लक्षणमुक्तम् । तत्र मन्त्रभागस्यापरोऽवान्तरविभाग ऋगादिरूपः – अहे बुध्निय मन्त्रं मे नोपाय | यमृषयस्त्रविदा विदुः । ऋचः सामानि यज्ञशषि । साहि श्रीरमृता सतामिति मन्त्ररूपवेदे लोके च प्रसिद्धः । तत्र को भाग ऋक्छब्देनोच्यते को वा सामशब्देन को वा यजुः शब्देनेति तत्परिज्ञा
.४६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com