SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ४७ उपोद्घातः । नाय ऋगादिलक्षणमुच्यते । तत्र तेषामग्यत्रार्थवशेन पादच्यवस्थेत्यग्ल. क्षणं सूत्रम् । तेषां मन्त्राणां मध्ये यस्मिन्मन्त्रे पादव्यवस्था स मन्त्र ऋगित्युच्यत इति सूत्रार्थः । ऋचः सर्वम्या विशिष्टेकार्थप्रतिपादकत्वेऽपि प्रतिपादमवान्तरार्थभेदसंभवादर्थव शेनेत्युक्तम् । एतच्च पादव्यवस्था हेतूनां वृत्तवशत्वादीनामुपलक्षणम् । तस्यैव मुख्यतया व्यवस्थापकत्वात् । एतच्च न लक्षणशरीरमविष्टम् । पादव्यवस्थावन्मन्त्रत्वस्यैवानतिप्रसक्तत्वादिति द्रष्टव्यम् । एतावता पादव्यवस्थारूपलक्षणे मन्त्रत्वे सतीति विशेषणं सचित्तम् । मन्त्रत्वविशेषणादेव श्लोके नातिव्याप्तिरिति द्रष्टव्यम् । गीतिषु गीतिविशिष्टमन्त्रेषु केवलासु गीतिषु चापि सामेत्याख्यति । अत्र विचारविस्तार आकरे द्रष्टव्यः। शेषे यजःशब्दः । ऋक्सामाभ्यां यदन्यत्प्रश्लिष्टपठितं मन्त्रजातं तद्यजरित्यर्थः । मन्त्रजातमिति ब्राह्मणव्यात्त्यर्थम् । सर्वमन्त्रेष्वादावन्ते च प्रणवो चक्तव्यः । ओमिति ब्रह्म । ओमितीद सर्वमिति श्रुतेः । ॐकारमग्रे प्रयुञ्जीतैष एव हि पुरस्ताद्यज्ञस्य युज्यत एष पश्चात्सर्वे त एष एव यज्ञा यत इत्याथर्वणश्रुतेश्च । एष एव प्रणव एव । सर्वे ते यज्ञा यस्मादत आदौ पश्चाच्च स प्रयोक्तव्य इत्यर्थः । ऋष्यादीनां ज्ञानमात्रमावश्यकं न तु तत्तद्वाचकशब्दोच्चारणमपि । शिष्टा उच्चारणमपीदानी कुर्वन्ति तल्लोक ऋष्यादि ज्ञायतेऽनेनेति ख्यापनार्थम् । इदानीं श्रौत ऋग्वेदिनः शिष्टा ऋष्यादिस्मरणं प्रणवोच्चारणमपि न कुर्वन्ति । तैत्तिरीयास्तु श्रोते गार्बे च न कुर्वन्ति । तत्र ीते न कुर्वन्तु ऋग्वेदिवत् । गायें तु पक्षान्तरस्याभावात्सः कर्तव्यमेवेति यद्युक्तं तद्ाह्यमिति सुस्थम् । जपान्वर्जयित्वैकश्रुत्यैव सर्वत्र मन्त्रपाठः। तथा च पाणिनिः-यज्ञकर्मण्यजपन्यूङ्खसामस्विति । एकश्रुति दूरासं. बुद्धाविति सूत्रादेकश्रुतीत्यनुवर्तते । कात्यायनस्तु-मन्त्रे स्वरक्रिया यथाम्नातमविशेषाद्भाषिकस्वरो वोपपन्नमन्त्रोपदेशात्तानो वा नित्यत्वा. दिति तानस्वरमेवाऽऽह । कर्मणि प्रयुज्यमाने मन्त्र आन्नातस्वरेण प्रयोगः । कुत एतत् । अविशेषान विशेषोऽवसातुं शक्यतेऽनेन स्वरेणानेन वा प्रयोग इति । तस्मात्समाम्नायस्वरः । एवं प्राप्त आह-- भाषिकस्वरो वोपपन्नमन्त्रोपदेशादिति । वाशब्दः पक्षव्यावृत्तौ । भाषिकस्वरो वा भवति । ब्राह्मणस्वरो न मन्त्रस्वरः । कुत एतत् । उपपनस्वरस्यैव मन्त्रस्य विद्यमानस्वरस्य ब्राह्मणे स्वरान्तरोपदेशो भवति । तस्माद्भा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy