________________
भट्टगोपीनाथदीक्षितविरचितःप्रथमेनाऽऽदिपदेनेक्षुयन्त्रादीनां ग्रहणम् । उत्तरेणाऽऽदिपदेन म्लेच्छादीनां ग्रहणम् । आचारदर्पणे स्मृत्यन्तरे--
संध्ययोरुभयो व कर्भ कार्य मनीषिभिः ॥ इति । विना वचनमिति शेषः । बोधायनः—निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायेन तीर्थेन कुर्यादैवेन दैविकं पैतृकं पित्र्येण कमण्डलुस्पर्शनं दधिस्पर्शनं चान्नप्राशनं सवग्रहणं दैविकं सौम्येनाऽऽग्नेयेन प्रतिग्रह कुर्यादिति । स्वल्पामुल्योर्मूले कायम् । स्वल्पांगुली कनिष्ठिके । अगुल्य ग्रेषु दैवम् । अङ्गुष्ठमूले पित्र्यमेतदेव पैतृकं ज्ञेयम् । अङ्गुलिमूळे सौम्यम् । करमध्य आनेयम् । आपस्तम्बः--
क्रोधयुक्तो यद्यजति यज्जुहोति यदर्चति ।
स तस्य हरते सर्वमामकुम्भो यथोदकम् ।। इति । वसिष्ठः--
विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम् । सदाऽपि पापकर्माणमेनो न प्रतियुज्यते ।। जापिना होमिनां चैव ध्यायिनां तीर्थवासिनाम् ।
न संवसन्ति पापानि ये च स्नानाशिनो व्रतैः ॥ इति । अन्य स्मत्यन्तरे
पाखण्डिभिः सहाऽऽलापं कर्मकाले विवर्जयेत् ॥ इति । पाखण्डिस्वरूपं लैङ्गे--
घेदवाझव्रताचाराः श्रौतस्मातबहिष्कृताः ।
पाखण्डिन इति ख्याता न संभाष्या द्विजातिभिः ॥ इति । अमवतेऽपि--
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।। इति परिगणितानि विद्यास्थानान्यधिकृत्य--
एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पितम् । दैत्यानां मोहनार्थाय महामोहेन निर्मितम् ।। इति ।
पाशब्देन तु वेदार्थः पाखण्डास्तस्य खण्डकाः । इति पाखण्डशब्दनिरुक्तिः । आचाररत्न आपस्तम्बः
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com