Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
४७
उपोद्घातः । नाय ऋगादिलक्षणमुच्यते । तत्र तेषामग्यत्रार्थवशेन पादच्यवस्थेत्यग्ल. क्षणं सूत्रम् । तेषां मन्त्राणां मध्ये यस्मिन्मन्त्रे पादव्यवस्था स मन्त्र ऋगित्युच्यत इति सूत्रार्थः । ऋचः सर्वम्या विशिष्टेकार्थप्रतिपादकत्वेऽपि प्रतिपादमवान्तरार्थभेदसंभवादर्थव शेनेत्युक्तम् । एतच्च पादव्यवस्था हेतूनां वृत्तवशत्वादीनामुपलक्षणम् । तस्यैव मुख्यतया व्यवस्थापकत्वात् । एतच्च न लक्षणशरीरमविष्टम् । पादव्यवस्थावन्मन्त्रत्वस्यैवानतिप्रसक्तत्वादिति द्रष्टव्यम् । एतावता पादव्यवस्थारूपलक्षणे मन्त्रत्वे सतीति विशेषणं सचित्तम् । मन्त्रत्वविशेषणादेव श्लोके नातिव्याप्तिरिति द्रष्टव्यम् । गीतिषु गीतिविशिष्टमन्त्रेषु केवलासु गीतिषु चापि सामेत्याख्यति । अत्र विचारविस्तार आकरे द्रष्टव्यः। शेषे यजःशब्दः । ऋक्सामाभ्यां यदन्यत्प्रश्लिष्टपठितं मन्त्रजातं तद्यजरित्यर्थः । मन्त्रजातमिति ब्राह्मणव्यात्त्यर्थम् । सर्वमन्त्रेष्वादावन्ते च प्रणवो चक्तव्यः । ओमिति ब्रह्म । ओमितीद सर्वमिति श्रुतेः । ॐकारमग्रे प्रयुञ्जीतैष एव हि पुरस्ताद्यज्ञस्य युज्यत एष पश्चात्सर्वे त एष एव यज्ञा यत इत्याथर्वणश्रुतेश्च । एष एव प्रणव एव । सर्वे ते यज्ञा यस्मादत आदौ पश्चाच्च स प्रयोक्तव्य इत्यर्थः । ऋष्यादीनां ज्ञानमात्रमावश्यकं न तु तत्तद्वाचकशब्दोच्चारणमपि । शिष्टा उच्चारणमपीदानी कुर्वन्ति तल्लोक ऋष्यादि ज्ञायतेऽनेनेति ख्यापनार्थम् । इदानीं श्रौत ऋग्वेदिनः शिष्टा ऋष्यादिस्मरणं प्रणवोच्चारणमपि न कुर्वन्ति । तैत्तिरीयास्तु श्रोते गार्बे च न कुर्वन्ति । तत्र ीते न कुर्वन्तु ऋग्वेदिवत् । गायें तु पक्षान्तरस्याभावात्सः कर्तव्यमेवेति यद्युक्तं तद्ाह्यमिति सुस्थम् । जपान्वर्जयित्वैकश्रुत्यैव सर्वत्र मन्त्रपाठः। तथा च पाणिनिः-यज्ञकर्मण्यजपन्यूङ्खसामस्विति । एकश्रुति दूरासं. बुद्धाविति सूत्रादेकश्रुतीत्यनुवर्तते । कात्यायनस्तु-मन्त्रे स्वरक्रिया यथाम्नातमविशेषाद्भाषिकस्वरो वोपपन्नमन्त्रोपदेशात्तानो वा नित्यत्वा. दिति तानस्वरमेवाऽऽह । कर्मणि प्रयुज्यमाने मन्त्र आन्नातस्वरेण प्रयोगः । कुत एतत् । अविशेषान विशेषोऽवसातुं शक्यतेऽनेन स्वरेणानेन वा प्रयोग इति । तस्मात्समाम्नायस्वरः । एवं प्राप्त आह-- भाषिकस्वरो वोपपन्नमन्त्रोपदेशादिति । वाशब्दः पक्षव्यावृत्तौ । भाषिकस्वरो वा भवति । ब्राह्मणस्वरो न मन्त्रस्वरः । कुत एतत् । उपपनस्वरस्यैव मन्त्रस्य विद्यमानस्वरस्य ब्राह्मणे स्वरान्तरोपदेशो भवति । तस्माद्भा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262