Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 232
________________ उपोद्घातः । इनि दक्षोक्तेः । तस्य कर्तुः। अविदित्वा मुनि छन्दो दैवतं योगमेव च । योऽध्यापये द्यजेद्वाऽपि पापीयाञ्जायते हि सः ॥ ब्राह्मण विनियोगं च च्छन्द आर्ष च दैवतम् । अज्ञात्वा पश्च यो मन्त्रे न स तत्फलमश्नुते ।। इति चन्द्रिकायां व्यासोक्तेश्च । ऋष्यादिज्ञानस्याऽऽवश्यकत्वं छन्दोगा अप्यधीयते-यो ह वा अविदितायच्छन्दोदेवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुवा भवति गर्ने वा पात्यते प्रवा मीयते पापीयान्भवति तस्मादेतानि मन्त्रे विदध्यादिति । आर्षेयमृषिसंबन्धम् । छन्दो गायच्यादि । दैवतं प्राजापत्यादि । ब्राह्मणं विनियोजकं वाक्यम् । तत्रयस्तैत्तिरीयशाखिभिः काण्डानुक्रमणिकायां द्रष्टव्याः । यस्य मन्त्रस्यानेककाण्डेषु पाठस्तत्र विकल्पः समुच्चयो वा । देवता तु मन्त्रलिङ्गाद्वचनबलाद्वा । छन्दस्तु दैवासुरमाजापत्यार्षभेदेन प्रत्येकं चतुर्विधम् । अक्षरभेदाणभेदाभिनं पिङ्गलशास्त्रात्समानन्यायसत्त्व ऋग्वेदानुक्रमणिकातश्च । मन्त्रेषु यत्र स्पष्टं लिङ्ग नास्ति होमादौ तत्राग्निरेव देवता । कल्पसारकारोक्तेः। कुत्रचिद्वचनवलान्मन्त्रगतदेवतां परित्यज्यान्यदेवतापरत्वमप्यन्द्रीन्यायेन केनापि साम्येनेति द्रष्टव्यम् । ब्राह्मण तु प्रत्यक्षं तत्तन्मन्त्रविषये प्रायशोऽस्त्येव । अप्रत्यक्षं तु कल्पसूत्रकारप्रत्यक्षमिति तद्विधायकवाक्यरूपमेव । विनियोगस्तु सुप्रसिद्ध एव । न च स्मरेदृषि छन्दः श्राद्ध वैतानिके मखे । ब्रह्मयज्ञे वैश्वदेवे तथा तर्पणकर्मणि ।। इति कृष्णभट्टीकारधृतसंग्रहवचनाच्छ्राद्धादौ स्मरणं न कर्तव्यमिति केचित् । अन्ये त्वेतस्य वचमो निर्मलत्वादृष्यादिस्मरणमेतेष्वपि कर्तव्यमेव । कुर्वन्ति च सामगाः । न चैते छन्दोगब्राह्मणबलात्कुर्वन्तीति वाच्यम् । निषेधवचनस्य निर्मूलत्वेन याज्ञवल्क्योक्ताद्यस्मरणे दोषस्य प्रबलत्वेन चैतस्य ब्राह्मणस्य होलाकाधिकरणन्यायेन सर्ववेदविषये प्रवृत्तौ बाधक भावात् । तस्मात्सर्वैरप्यविशे. पादृष्यादिस्मरणमेतेष्वपि कर्तव्यमेवेत्याहुः । न च यजुश्छन्दो न विद्यत इति निषेधात्कथं याजुषाणां छन्दःस्मरणमिति वाच्यम् । एतस्य यजु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262