Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 193
________________ भट्टगोपीनाथदीक्षितविरचितःअभ्युदयो धर्मस्य साक्षात्फलं निःश्रेयसं तु तत्त्वज्ञानद्वारा । तथा च स्मृतिः धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽभिजायते । इति । स च धर्मः स्वस्ववर्णाश्रमोचित एव कर्तव्यः । तथा च स्मृतिः___ वर्णाश्रमोचितं धर्म कुर्वन्नेव मुखी भवेत् ।। इति । भगवद्गीतास्वपि श्रेयास्त्रधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ इति । गणेशगीतास्वपि-- शस्तोऽगुणो निजो धर्मः साङ्गादन्यस्य धर्मतः । निजे तस्मिन्मृतिः श्रेष्ठापरत्र भयदः परः ॥ इति । अगुण इति पदच्छेदः । मनुः-- वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः। तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ॥ इति । कूर्मपुराणेऽपि यथाशक्ति चरेत्कर्म निन्दितानि विवर्जयेत् । विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धानात्र कार्या विचारणा ॥ इति । तत्र साधारणधर्मानाह बृहस्पतिः-- दया क्षमाऽनसूया च शौचानायासमङ्गलम् । अकार्पण्यास्पृहे चैव धर्माः साधारणास्त्विमे ॥ इति । विष्णुरपि-- क्षमा सत्यं दमः शौचं शम इन्द्रियनिग्रहः । अहिंसा गुरुशुश्रूपा नीर्थानुसरणं दया । आत्मज्ञानमलोभित्वं देवतानां च पूजनम् । अशापण्यानसूये च धर्मः सामान्य उच्यते ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262