________________
भट्टगोपीनाथदीक्षितविरचितःअभ्युदयो धर्मस्य साक्षात्फलं निःश्रेयसं तु तत्त्वज्ञानद्वारा । तथा च स्मृतिः
धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽभिजायते । इति । स च धर्मः स्वस्ववर्णाश्रमोचित एव कर्तव्यः । तथा च स्मृतिः___ वर्णाश्रमोचितं धर्म कुर्वन्नेव मुखी भवेत् ।। इति । भगवद्गीतास्वपि
श्रेयास्त्रधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ इति । गणेशगीतास्वपि--
शस्तोऽगुणो निजो धर्मः साङ्गादन्यस्य धर्मतः । निजे तस्मिन्मृतिः श्रेष्ठापरत्र भयदः परः ॥ इति । अगुण इति पदच्छेदः । मनुः--
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः। तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ॥ इति । कूर्मपुराणेऽपि
यथाशक्ति चरेत्कर्म निन्दितानि विवर्जयेत् । विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धानात्र कार्या विचारणा ॥ इति । तत्र साधारणधर्मानाह बृहस्पतिः--
दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।
अकार्पण्यास्पृहे चैव धर्माः साधारणास्त्विमे ॥ इति । विष्णुरपि--
क्षमा सत्यं दमः शौचं शम इन्द्रियनिग्रहः । अहिंसा गुरुशुश्रूपा नीर्थानुसरणं दया । आत्मज्ञानमलोभित्वं देवतानां च पूजनम् । अशापण्यानसूये च धर्मः सामान्य उच्यते ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com