________________
उपोद्धातः। असाधारणधर्मानाह बृहस्पति:-- स्वाध्यायोऽध्यापनं चापि यजनं याजनं तथा । दानं प्रतिग्रहश्चापि षट् कर्माण्यग्रजन्मनः ।। इज्याध्ययनदानं च प्रजानां प्रतिपालनम् । शस्त्रास्त्रधारणं सेवा कर्माणि क्षत्रियस्य तु ।। स्वाध्यायो यजनं दानं पशूनां पालनं तथा । कुसीदकृषिकर्माणि वैश्यस्यैतानि सप्त वै ।। शौचं ब्राह्मणशुश्रूषा सत्यमक्रोध एव च ।
शूद्रकर्म तथा मन्त्रो नमस्कारोऽस्य चोदितः ॥ इति । भगवद्गीतास्वपि
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि मविभक्तानि स्वभावप्रभवर्गुणः ॥ शमो दमरतपः शौचं क्षान्तिरानवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।। शार्य तेजो धृतिक्ष्यिं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षत्रको स्वभावजम् ।। कृपिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचयात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ इति । गणेशगीतास्वपि
ब्रह्मक्षत्रियविट्शदाः स्वभावाद्भिनकर्मिणः । तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥ अन्तोन्द्रियाणां च वश्यत्वमृजुता क्षमा । नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥ वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च । अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ।। दाय शौर्य च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् । शरण्यपालनं दानं धृतितेजःस्वभावजम् ॥ प्रभुता मनोन्नत्यं सुनीतिर्लोकपालनम् । पञ्चकर्माधिकारित्वं क्षानं कर्म समीरितम् ।। नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com