________________
भट्टगोपीनाथदीक्षितविरचितः --
त्रिधा कर्माधिकारित्वं वैश्यानां कर्म ईदृशम् ॥ दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् । एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥ स्वस्वकर्मरता एते मयदर्थाखिल हारिणः । मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप । इति । आत्मनो द्विविधं ज्ञानं शास्त्राचार्योपदेशजं परोक्षं ध्यानजमपरोक्षं च । दाद शस्त्रास्त्रविद्यायां दृढतरोऽभ्यासः । शौर्य शस्त्रास्त्रप्रयोगसामर्थ्यम् । दाक्ष्यं परप्रयुक्तशस्त्रास्त्राणां निवारणे निपातेऽपि व्यामोहराहित्यम् । एतत्रितयफलं युद्धे पृष्ठामदर्शनमपराङ्मुखत्वम् । तदेतदेकं क्षात्रं कर्म । शरण्यपालनं शरण्यः शरणागतस्तस्य पालनं शिविदिलीपादिवत्स्वशरीरार्पणेनापि संरक्षणम् । इदं द्वितीयं कर्म । दानं कर्णदधीचित्रत्स्वाङ्गन्समर्पणेनातिथेर्मुख्यकार्य संपादनमिदं तृतीयं कर्म । धृतितेजःस्त्रभावज मित्येतत्पूर्वेषां त्रयाणामपि विशेषणम् । पूर्वोक्तं त्रयमपि स्वभावजेनानागन्तुकेन तेजसा सामर्थ्येन च विना न भवतीत्यतस्तेषामिदं युक्तं विशेषणं धृतितेजःस्वभावजमिति । वेदाध्ययनं तदर्थानुष्ठानं चास्य त्रैवर्णिकत्वादेव प्राप्त तो नोक्तं दानेन वा तदुपलक्षणीयम् | प्रभुतेत्यस्यैव व्याख्यानं मनऔन्नत्यमिति चतुर्थमिम् । एवं सुनीतिरित्यस्यैव व्याख्यानं लोकपालन मिति पञ्चममिदम् । एतानि चतुर्णां वर्णानां कर्माणि | नरव्याघ्र नृपेत्येतद्द्द्वयं वरेण्यराज्ञः संबोधनम् । धर्मसूत्रे अशूद्राणामदुष्टकर्मणामुपनयनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि शुश्रूषा शुद्रस्येतरेषां वर्णानामिति । स्मृत्यन्तरे -
H
सदाचारपरो विप्रः शुभं यत्र विराजते । सदाचारविहीनस्तु नरकायोपकल्पते । इति ।
आचारः परमो धर्मो नृणां श्रेयस्करो महान् । इह लोके परा कीर्तिः परत्र परमं सुखम् ॥ इति ।
विष्णुपुराणे
नास्त्याचारात्परं पुण्यं नास्त्याचारात्परं तपः । नारत्याचारात्परं दानं नास्त्याचारात्परं सुखम् ॥ इति ।
पराशरः
आचारः परमो धर्म आचारः परमं तपः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com