SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः । आचारः परमं ज्ञानमाचारात्किं न साध्यते ॥ इति । भविष्योत्तरे भगवद्वचनमपि आचारात्प्राप्यते श्रैष्ठयमाचारात्कर्म लभ्यते । कर्मणा जायते ज्ञानं ज्ञानान्मोक्षस्त्ववाप्यते । तस्मात्कर्मणि युक्तात्मा शश्वत्त्वं च भवार्जुन ॥ इति । सदाचाराकरणे प्रत्यवायोऽपि तत्रैव — यस्त्वाचारविहीनोऽपि विद्वान्वेदपरायणः । सर्वधर्म बहिष्कार्यो यथा शूद्रस्तथैव सः ।। इति । पराशरः आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः । आचाररहितो विप्रो न वेदफलमश्रुते ॥ इति । स्मृत्यन्तरे लौकिकाचारोऽप्यावश्यकत्वेनोक्तः किं पुनः शास्त्रीयः -- यद्यपि स्यात्स्वयं ब्रह्मा त्रैलोक्याकर्षणक्षमः | तथाऽपि लौकिकाचारं मनसाऽपि न लङ्घयेत् ॥ इति । भारत आनुशासनिके पर्वणि दुराचारो हि पुरुषो नेहाऽऽयुर्विन्दते महत्। त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ॥ तस्मात्कुर्यादिहाऽऽचारं यदीच्छेद्भूतिमात्मनः । अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥ आचारलक्षणो धर्मः सन्तश्चाऽऽचारलक्षणाः । साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥ इति । स्मृत्यन्तरे - सामयाचारिका धर्मा देशजातिकुलोद्भवाः । ग्रामाचाराः परिग्राह्या ये च शास्त्राविरोधिनः । युगधर्माः परिग्राह्याः सर्वत्रैव यथोचितम् ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat id www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy