________________
भट्टगोपीनाथदीक्षितविरचितः -
धर्मसूत्रे - अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामो धर्मज्ञः समयः प्रमाणं वेदा इति । समयाचारप्राप्ताः सामयाचारिकाः । समयञ्चब्दः स्वयमेव व्याचष्टे धर्मज्ञः समय इति । धर्मज्ञा ऋषयः । ननु तत्र किं प्रमाणमत आह— प्रमाणं वेदा इति । अस्मिन्नर्थे वेदाः प्रमाणमित्यर्थः । - सदाचारलक्षणं झरीत आह
१०
साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारः स उच्यते ।। इति ।
-मनुरपि -
यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः १ वर्णानां सान्तरालानां स सदाचार उच्यते ॥ इतेि ।
सान्तरालाः सानुलोमाः । सतां लक्षणं बोधायनोऽप्याह - शिष्टाः खलु विगतमत्सरा निरहंकाराः कुम्भीधान्या अलोलुपा दम्भदलोभमोहविवर्जिता इति । आरण्यके पर्वणि—
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः । ऋजवः शमसंपन्नाः शिष्टा एते प्रकीर्तिताः ॥ विद्यदृद्धाः शुचयो वृत्तवन्तो यशस्विनः । गुरुशुश्रूषवो दान्ताः शिष्टा एते प्रकीर्तिताः ॥ इतेि ।
एतदर्थकं धर्मसूत्रमपि पूर्वमे चोदाहृतं सर्वजनपदेष्वेकान्त समाहितमित्यादिकम् । सतामपि सन्नवाऽऽचारः स्वीकार्यः । अत एव गुरुणोपदिइयते—यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यान्यस्माकर सुचरितानि तानि त्वयोपास्यानि नो इतराणीति । अन वद्यानि अनिन्द्यानि । शिष्टा यत्कर्म कुर्वन्ति यच्च तेषां वृत्तं तदेवानुसरणीयम् । तथा चोपनिषदि - अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्त्तेरंस्तथा तत्र वर्तेथा इत्यादि श्रूयते । यदि कदाचिचे तव श्रौते स्मार्ते वा कर्मणि वृत्ते वाऽऽचारलक्षणे विचिकित्सा संशयः स्याद्भवेद्ये तत्र तस्मिन्देशे काले वा ब्राह्मणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः । संमर्शिनो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com