________________
उपोद्धातः । विचारक्षमाः । युक्ता अभियुक्ताः कर्माण वृत्ते वा । आयुक्ता अपरप्र. युक्ता अलूक्षा अरूक्षा अकरमतयः । धर्मकामा अदृष्टार्थिनोऽकामहता इत्येतत्ते यथा तत्र तस्मिन्नमणि वृत्ते वा वर्तेरंस्तथा त्वमपि वर्तथा इति विद्यारण्यश्रीपादैाख्यातेयं श्रुतिः । उपनिषत्पदनिरुक्तिराचार्यैः दर्शिता
उपनीयेममात्मानं ब्रह्मोपास्तिद्वयं ततः ।
निहन्त्यविद्या तज्जां च तस्मादुपनिषन्मता ॥ इति । स्मृत्यन्तरे
नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा भवेत् ।
नित्यनैमित्तिके एव मोक्षार्थी कर्मणी चरेत् ।। इति । गीतासु भगवताऽपि मुमुक्षोरर्जुनस्य फलासक्तिनिषिद्धा
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्धयोः समो भूत्वा समत्वं योग. उच्यते ॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । इति । योगलक्षणं पतञ्जलिराह-योगश्चित्तवृत्तिनिरोध इति । संप्रज्ञातासंप्रज्ञातभेदेन द्विविधो योगः । संप्रज्ञातोऽपि वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इति चतुर्विधः । तत्रापि वितर्कः सवि. तर्कनिर्वितर्कभेदेन द्विविधः । एवं विचारोऽपि सविचारनिर्विचारभेदेन । असंप्रज्ञातोऽपि द्विविधः । भवप्रत्यय उपायप्रत्ययश्चेति । भवप्रत्ययो द्विविधः । विदेहानामन्यः प्रकृतिलयानामन्यः । उपायप्रत्ययोऽफि विविधः । स्वतोऽव्युत्थानः परतोऽन्युत्थान. उभयतोऽप्यन्युत्थान इति बहुविधो योगः। एतेषां लक्षणानि पतञ्जलि सूत्रेभ्य एव ज्ञेयानि । योगस्य ज्ञानोपायत्वं मूत्रितं भगवता हिरण्यगर्भण-अथ तद्दर्शनाभ्यु. पायो योग इति । व्यतिरेकमुखेण दक्षेणापि दर्शितम्
स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्रीसुखं यथा ।
अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ।। इति । योग्येव जानातीति तृतीयपादार्थः । स्मृतिप्रकाशे
नियमैश्च यमैर्युक्ता आचारेण च संयुताः। कर्माणि ये प्रकुर्वन्ति तेषां सिद्धिस्तु शाश्वती ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com