SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः। सदाचाररता ये च तदुक्तं यत्नतश्चरेत् ।। इति । अनुपादेयवचना उक्ता हेमाद्रौ स्कान्दे-- वेदाधिगमहीना ये शौचाचारविवर्जिताः । नास्तिकाः पण्डितमन्यास्तेपां वाक्यं विवर्जयेत् ।। येषां विश्वेश्वरे विष्णों शिव भक्तिर्न विद्यते । न तेषां वचनं ग्राह्य धर्मनिर्णयसिद्धये ।। इति । पामेऽपि वाचं व्याकुर्वते नैव मीमांसन्ते न चाध्वरम् । शुष्कतर्करता ये वै तेषां वाक्यं विवर्जयेत् ।। इति । कालिकापुराणेऽपि वेदे च वेदनायां च कर्मण्यपि च वैदिके। श्रद्धा नास्ति च येषां वै तेषां वाक्यं विवर्जयेत् ॥ इति । वेदना वेदार्थज्ञानम् । याज्ञवल्क्यः श्रुतिः रमृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ।। इति । मया भोजनव्यतिरेकेण जलं नैव पेयमित्येवमादिः कश्चन सम्यक्सं. कल्पजः सम्यनिश्चयो नियमोऽपि धर्ममूलं भवति विध्यभावेऽपीत्यर्थः । धर्मसूत्रे__ दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषां तेषां तेजोविशेषेण प्रत्यवायो न विद्यते तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवर इति । याज्ञवल्क्यः कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् । अस्वयं लोकविद्विष्टं धर्ममप्याचरेन तु ॥ इति । स्मृन्यन्तरे अनुष्ठितं तु यद्देवैर्मुनिभिर्यदनुष्ठितम् । नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म चाऽऽचरेत् ।। इात । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy