SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भट्ट गोपी नाथ दीक्षितविरचिनः - माहितमाचार्याणां वृत्तसम्यग्विनीतानां वृद्धानमात्मवतालोलु नामदाम्भिकानां वृत्तसादृश्यं भजेतेति । अन्यच्च धर्मसूत्रे नेमं लौकिकमर्थं पुरस्कृत्य धर्माश्श्वरेत्तद्यथाऽऽम्रे फलार्थे निर्मिते छायागन्धावनुत्पश्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्त इति । बोधायनः -- उपदिष्टो धर्मः प्रतिवेदं तस्यानुव्याख्यास्यामः स्मात द्वितीयस्तृतीयः शिष्वागम इति । उपदेशो वेदस्तेन कर्तव्यतया विहितो वैतानिक इति यावत् । प्रतिद् प्रतिशाखम् । नहि वेदे समुदायरूपेणैकाकारक एव प्रयोगो विधीयते किंतु नाना । प्रयोगः प्रतिपूरुपमेकैक एव । तत एकशाखया स्वेन व्याख्यातस्तस्यानु तमनु तं प्रातिशाख्यमर्थमन्वित्यर्थः । तच्छाखीयं स्मार्ते तच्छाखीयं शिष्टाचारलक्षणं धर्मे व्याख्यास्यामः । तावपि नियतौ श्रुतिशास्वमित्यर्थः । मनुरपि - विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषराणिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यथ ॥ अनाश्नातेषु बेदेषु कथं स्यादितिचेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ इति । बोधायनोऽपि - धर्मशास्त्ररथादा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यद्ब्रूयुः स धर्मः स्यादशङ्कितः ॥ इति ॥ विश्वामित्रोऽपि - यमार्या: क्रियमाणं हि शंसन्त्यागमवेदिनः । म धर्मो यं विगर्हन्ति तमधर्मे प्रचक्षते || वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः । शिष्टाचारः स्मृतो यस्तु त्रिविधं धर्मलक्षणम् ॥ इति । आपस्तस्त्रः- - यं शिष्टा ब्राह्मणा ब्रूयुः स धमा मानुषः स्मृतः । आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेत्ति तत्रतः ॥ इति पुराणन्यायमीमांसा धर्मशास्त्रार्थचिन्तकाः । शारदापुराणे- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy