________________
उपोद्घातः । तत्र लक्षणसमन्वयः । चोदनालक्षणोऽर्थो धर्म इति धर्मलक्षणं कुर्वता जैमिनिनाऽचोदनालक्षणोऽनर्थोऽधर्म इत्यधर्मलक्षणमपि मूचितम् । अन:थेचानिष्टसाधनम् । एवं चाविहितनिषिद्धक्रियात्वमित्यधर्मलक्षण पर्यवस्यति । इष्टानिष्टप्रापके कर्मणी धर्माधर्मावित्युक्तं मत्स्यपुराणे
धर्मेति धारणे हेतुर्भहत्त्वे वै प्रपद्यते । धारणेन महत्त्वेन धर्म एव निरुच्यते ।। नेनेष्टप्रापको धर्म आचार्यरुपदिश्यते ।
इनरोऽनिष्टफलदस्त्वाचार्यरुपदिश्यते ॥ इनि ।। संवर्तस्मृतिरपि
देशे देशे य आचारः पारम्पर्यक्रमागतः ।
आम्नायैरविरुद्धश्च स धर्मः परिकीर्तितः ।। इति ।। याज्ञवल्क्योऽपि
इज्याचारदयाहिंसादानस्वाध्यायकर्मणाम् ।।
अयं तु परमो धर्मो यद्योगेनाऽऽस्मदर्शनम् ।। इति. स्मृत्यन्तरे
धृतिः क्षमा दयाऽस्नेयं शौचमिन्द्रियनिग्रहः ।
हीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। इति । यद्यपि धर्मः क्षरति कीर्तनादधर्मों वर्धते गोपनादित्यादौ वैशेषिकतन्ने च विहितक्रियाजन्यादृष्टे धर्मशब्दप्रयोगो निषिद्धक्रियाजन्यादृष्टे यधर्मशब्दप्रयोगस्तथाऽपि--
धर्मः स्वनुष्ठिनः पुंसां विष्वक्सेनकथासु च ।
अधर्ममनुतिष्ठेच्चे नरके पतति ध्रुवम् ।। आचारः परमो धर्मः, अधर्मः स्यादनाचार इत्यादौ तजनकविहितनिषिद्धक्रियादावपि तच्छब्दप्रयोगात्तद्वाचकत्वमपि ।
__ अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् । इत्यादौ तु ज्ञानेऽपि धर्मशब्दप्रयोगो दृश्यते । धर्मसूत्रे-न धर्माधर्मों पर त आवारस्व इति न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म इति यत्त्वार्याः प्रशश्पन्ति स धर्मो यद्गहन्ते सोऽधर्मः सर्वजनपदेष्वेकान्तस,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com