________________
भगोपीनाथदीक्षितविरचितःधर्मेण वर्तमानः परमो गतिमामोतीति । धर्मे प्रमाणं चोदनैवेत्याह जैमिनिः-चोदनालक्षणोऽर्थो धर्म इति । चोदना विधिलक्षणं प्रमाणं यस्य तादृशोऽयों बलवदनिष्टाननुषन्धीष्टसाधनं यः स धर्म इत्यर्थः। अर्थो धर्म इत्येतावत्युक्ते भोजनादावतिव्यासिरतश्चोदनालक्षण इति । भोजनादेरिष्टसाधनत्वं तु न विरिप्रमाणकमिति तद्वा. रणम् । इथेनस्यापि विधिप्रमाणकत्वात्तद्वारणायार्थ इति । श्येनस्तु हिंसाजनकतया बलवदनिष्टनरकानुबन्धीति तद्वारणम् । यद्यनिष्टजन. कत्वं श्येनफलस्य वैरिमरणानुकूलशस्त्रघातादिरूपहिंसात्मकाभिचारस्यैचेति तस्यैव विधिबोधितानिष्टसाधनकत्वादधर्मत्वं श्येनस्य तु धर्मत्वमे. वेति विभाव्यते तदाऽर्थशब्देनेष्टसाधनत्वमा ग्राहम् । उक्तं च वार्तिके
यदि येनेष्टसिद्धिः स्यादनिष्टाननुबन्धिना । तस्य धर्मत्वमिष्येत ततः श्येनादिवर्जनम् ॥ यदा तु चोदनागम्यः कार्याकार्यानपेक्षया ।
धर्मः प्रीतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता ॥ इति । एवंविधश्च क्रियारूपो यागहोमादिद्रव्यरूपो गोदोहनादिर्गुणरूपो नी. चैस्त्वादिश्चति द्रष्टव्यम् । गोदोहनादि द्रव्यं यागादिः क्रिया नीचेरत्वादिगुणश्च फलसाधनत्वाद्धर्मशब्देनोच्यते न रूपूदिय इति श्रेय. रकरभाष्ये स्थितम् । तेषां फलसाधनत्वेन रूपेण न प्रत्यक्षादिविषयत्वं किंतु चोदनैव तत्र प्रमाणमित्यर्थः । तथा च भाट्टाः
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ।। श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते ।
ताद्रूप्येणैव धर्मत्वं तरमानेन्द्रियगोचरः ॥ इति । चोदना तु विधिः। तद्वाची लिङ दिः। स च प्रवर्तनारूपविधियोधकः। प्रवर्तना चेष्टसाधन एवेत्यर्थाद्यागादेः श्रेयःसाधनत्वप्रमा भवतीत्येवं. रीत्या धर्मप्रमाणत्वं बोध्यम् । एवं च विधिबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकत्वं विधिबोधितेष्टसाधनताकत्वं वा धर्मत्वमिति लक्षणं सिद्धम् । अत्र विधिबोधितत्वं ब्रह्मस्वर्गनरकादावपीत्युत्तरं दलम् । विषमक्षणादाविष्टानिष्टसाधनताकत्वेऽपि तस्य विधिबोधितत्वाभावादाचं दलम् । ज्योतिष्टोमकलञ्जभक्षणादीनां हीष्टानिष्टसाधनना विधिवोधितेति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com