________________
ॐ तत्सद्ब्रह्मणे नमः। भट्टगोपीनाथदीक्षितविरचितः---
उपोद्धातः । वात्सल्यात्पितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बित दृष्ट्वाऽऽकुश्वितमास्यपद्मममलं सेषत्स्मितं सत्वरम् । अन्योन्यं शिवयोस्ततः मुवदने युक्ते ह्यभूतां तयो. रित्थं येन विनोदितो स भगवान्बालो गजास्योऽवतु ॥ ११॥ विद्यामहागणपतिं देवं व्याडीश्वर तथा। योमेश्वरी च वाग्देवी लक्ष्मीनारायणौ रविम् ॥ २ ॥ सत्यापाढं मुनिश्रेष्ठं जातरूपशिरोरुहम् । गुरूंश्च मातापितरौ नत्वेदानीं यथामति ॥ ३॥ ओकोपाढेन कुतुकागोपीनाथेन धीमता । सत्यापाढेन रचितं सूत्रं व्याख्यायते मया ॥ ४ ॥ सूत्रवाधि मया तमारब्धं मन्दशक्तिना।
तत्रावलम्बो मम तु पारे गन्तुं गुरुस्मृतिः ॥ ५॥ तत्र प्रश्नष्टकै पूर्वव्याख्यातृभियाख्यातम् । अथाग्निष्टोमादिकर्मप्रति. पादकं सप्तमप्रश्नादिकं सूत्रमध्याख्यातस्वादिदानी व्याख्यायते । तंत्राऽऽदौ तावद्याज्ञिकानां संप्रदायबोधार्थ श्रीतपरिभाषाः स्मार्तगा - पदार्थाश्च संक्षेपेण प्रदान्ते । अत्रापि तावदादी सर्वकर्मणां वक्ष्यमाणानामग्निष्टोमादीनां पूर्वेषां दर्शपूर्णमासादीनां च धर्मरूपत्वाद्धर्मलक्षणमु. च्यते । तत्र धर्म प्रशंसति श्रुति:-धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धार्मष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्व प्रतिष्ठितं तस्माधर्म परमं वदन्तीति । स्मृतिरपि---
धर्मः संसेवितः शुद्धस्त्रायते महतो भयात् । श्रुत्वाऽपि सन्तस्तुष्यन्ति दूराद्धर्मपरं नरम् ।। धर्मः कृतः श्रुतो दृष्टः कथितश्चिन्तितोऽपि वा। तथाऽनुमोदितोऽपह पुनाति दशपूरुषम् ।।..
तस्माद्धर्मो यथाशक्ति यत्नात्सेव्यो नृभिबुधैः ॥ इति । धर्मसूत्रेऽपि धर्म प्रकृत्य-एवं वर्तमान उभौ लोकावभिनयतीति । एवं वर्तमानो धर्मेण वर्तमान उभौ पृथिवीधुलोको । वैखानसभरद्वाजावपि--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com