Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 209
________________ २२ भट्ट गोपीनाथदीक्षितविरविनः कर्मणामेतदध्याह्मार्पणमनुत्तमम् ॥ कार्यमित्येव यत्कर्म नियतं सङ्गवर्जिनम् । क्रियते विदुषा कार्य तद्भवेदपि मोक्षदम् ॥ अथवा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः । अकृत्वा फलसंन्यासं वध्यते तत्कलेन तु ।। तस्मात्सर्वप्रयत्नेन त्यक्त्वा तत्कर्मजं फलम् । अविद्वानपि कुर्वीत कर्मणाऽऽमोति तत्पदम् || इति । ब्रह्मार्पणबुद्धया कर्मकरणे फलबाहुल्यमपि । तदुक्तं व्यासेन वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेव देवेन्द्रत्वादिकं फलन् । इति । तस्माच्वतुर्विधपुरुषार्थोऽपि परमेश्वरमीत्यैव भवतीति ज्ञेयम् । ज्ञानिना फलाभिसंधिराहित्येन कर्मसु कृतेष्वपि तानि कर्माणि ज्ञानिनंं. नैव लिम्पन्ति । - तदुक्तं दृष्टान्त पहितं वेदान्तपदीपिकायाम् अशं कर्षाणि लिम्पन्ति तज्ज्ञं लिम्पन्ति तानि न । करे तु सज्जते तैलं जिह्वायां तु न सज्जते ॥ इति । ज्ञानिनोऽपि कर्मकर्तव्यता व्यास पूत्रेऽप्युक्ता विहितत्वाच्चाssश्रमकर्मापीति । न केवलं निषिद्ध कर्म वर्जनं किंतु वर्णाश्रमविहित कर्मकरणमपि । - पश्यन्नामिमात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्तु नियतमानन्दोत्माप्नुयात् ॥ इति कौषीरवश्रुतौ विहितत्वात् । अपिशब्दो वर्णधर्मसमुच्वयार्थ इति सूत्रार्थ: । सांख्यसूत्रमपि स्वस्वाश्रनविहितकर्मानुष्ठानमिति । कर्मशब्देनात्र यमनियम योर्ग्रहणम् । जितेन्द्रियत्वरूपः प्रत्याहारोऽपि सर्वाश्रमसाधारणतया कर्ममध्ये प्रवेशनीयः । तथा च पातञ्जलसूत्रे - ज्ञानसाधन. तया प्रोक्तान्यष्टौ योगाङ्गान्यत्रापि लग्यानीति तद्भाष्यम् । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानीति पातञ्जलसूत्रं सांख्यसूत्रभाष्ये यत्मदर्शितं तदेतदिति द्रव्यम् । योगस्येति शेषोऽत्र ज्ञेयोऽथत् । स्मृत्यन्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262