Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथ दीक्षितविरचितः -
मुख्यलाभाशया प्रक्रमे तदलाभ इत्यर्थः । प्रतिनिध्युपादानानन्तरं मुख्यलाभे विशेषमाह स एव --
२८
उपात्ते तु प्रतिनिधौ मुख्यं वै लभ्यते यदि । तत्र मुख्यमनादृत्य गौणनैव समाप्यते । इति ।
आरब्धं काम्यं कर्म फलप्राप्तौ तदिच्छाविगमे वाऽपि समापनीयमेव । न च प्रयोजनाभावात्किमर्थं समापनमिति वाच्यम् । देवताभ्यो वा एष आवृश्चयते यो यक्ष्य इत्युक्त्वा न यजत इति श्रुत्यादृष्टार्थमेव समापनस्योक्तत्वात् । तथा च जैमिनिः - प्रक्रमात्तु नियम्येताऽऽरम्भस्य क्रियानिमित्तत्वादिति । सर्वाणि कर्माणि शुद्धात्मना शुद्धदेशे शुद्धद्रव्येण कर्तव्यानि । तथा च व्यासः -
शुद्धात्मना शुद्धदेशे द्रव्येण शुचिना तथा । सर्वकर्माणि कर्तव्यान्यन्यथा दोषवृद्भवेत् ।। इति ।
देवल:--
येषु देशेषु यत्तोयं या च यत्रैव मृत्तिका । येषु देशेषु यच्छौचं धर्माचारश्च यादृशः । तत्र तान्नावमन्येत धर्मस्तत्रैव तादृशः ॥ इति ।
पराशरः
युगे युगे च ये धर्मास्तत्र तत्र च थे द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ इति ।
युगख्या युगानुरूपाः कालपरतन्त्रा इति यावत् । तदुक्तं भारत आरण्यके पर्वणि—
भूमिर्नयो नगाः शैलाः सिद्धा देवर्षयस्तथा । कालं समनुवर्तन्ते तथा भावा युगे युगे ।। कालं कालं समासाद्य नराणां नरपुंगव । बलवर्ष्मप्रभावा हि प्रभवन्त्युद्भवन्ति च ।। इति । अथ धर्मदेशाः । तत्र सुमन्तुः --
ब्रह्मावर्तः परो देशो ब्रह्मदेशस्ततः परम् । मध्यदेशस्ततोऽप्यून आर्यावर्तस्ततः परः ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262