SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भट्टगोपीनाथ दीक्षितविरचितः - मुख्यलाभाशया प्रक्रमे तदलाभ इत्यर्थः । प्रतिनिध्युपादानानन्तरं मुख्यलाभे विशेषमाह स एव -- २८ उपात्ते तु प्रतिनिधौ मुख्यं वै लभ्यते यदि । तत्र मुख्यमनादृत्य गौणनैव समाप्यते । इति । आरब्धं काम्यं कर्म फलप्राप्तौ तदिच्छाविगमे वाऽपि समापनीयमेव । न च प्रयोजनाभावात्किमर्थं समापनमिति वाच्यम् । देवताभ्यो वा एष आवृश्चयते यो यक्ष्य इत्युक्त्वा न यजत इति श्रुत्यादृष्टार्थमेव समापनस्योक्तत्वात् । तथा च जैमिनिः - प्रक्रमात्तु नियम्येताऽऽरम्भस्य क्रियानिमित्तत्वादिति । सर्वाणि कर्माणि शुद्धात्मना शुद्धदेशे शुद्धद्रव्येण कर्तव्यानि । तथा च व्यासः - शुद्धात्मना शुद्धदेशे द्रव्येण शुचिना तथा । सर्वकर्माणि कर्तव्यान्यन्यथा दोषवृद्भवेत् ।। इति । देवल:-- येषु देशेषु यत्तोयं या च यत्रैव मृत्तिका । येषु देशेषु यच्छौचं धर्माचारश्च यादृशः । तत्र तान्नावमन्येत धर्मस्तत्रैव तादृशः ॥ इति । पराशरः युगे युगे च ये धर्मास्तत्र तत्र च थे द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ इति । युगख्या युगानुरूपाः कालपरतन्त्रा इति यावत् । तदुक्तं भारत आरण्यके पर्वणि— भूमिर्नयो नगाः शैलाः सिद्धा देवर्षयस्तथा । कालं समनुवर्तन्ते तथा भावा युगे युगे ।। कालं कालं समासाद्य नराणां नरपुंगव । बलवर्ष्मप्रभावा हि प्रभवन्त्युद्भवन्ति च ।। इति । अथ धर्मदेशाः । तत्र सुमन्तुः -- ब्रह्मावर्तः परो देशो ब्रह्मदेशस्ततः परम् । मध्यदेशस्ततोऽप्यून आर्यावर्तस्ततः परः ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy