________________
उपोद्घातः ।
अकार्पण्यास्पृठे चैत्र अष्टावात्मगुणाः स्मृताः । चित्तशुद्धिकरा एते संस्काराः परिकीर्तिताः ॥ इति ।
फुलस्त्यः—
यनः
अकाले चेत्कृतं कर्म कालं प्राप्य पुनः क्रिया । कालातीतं तु यत्कुर्यादकृतं तद्विनिर्दिशेत् ।। इति ।
अकालेऽनागतकाले । द्रव्यादिभ्यः कालस्य प्राधान्यमाह कात्या
मुख्यकालं समाश्रित्य गौणमध्यस्तु साधनम् । न मुख्यद्रव्यलाभेन गौणकालप्रतीक्षणम् । इति । मुख्यद्रव्यलाभेन मुख्यद्रव्यलाभ हेतुना । गौणकालमप्याह स एव—स्वकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः । यद्वाऽऽगामिक्रियाकालमुख्ययोरन्तरालकम् ।। इति ।
अत्रोत्तरग्रहणान पूर्वकालस्य गौणत्वम् । तेन समस्य होमादावल्पद्वादश्यां माध्याह्निकापकर्पे च न प्रायश्चित्तम् । देवान्मुख्यकालातिक्रमे. मौणकालेऽनुष्ठानमकारमप्याह स एव—
प्रायश्चित्तप्रकरणप्रोक्ता निष्कृतिमाचरेत । प्रायश्चित्तमकृत्वा वा गौणकाले समाचरेत् ।। इति ।
शक्ताशक्तपस्तया व्यवस्था दृष्टव्या । कात्यायनः
२
प्रधानस्याक्रियाणं तु साङ्गं तत्पुनराचरेत् ॥ तदङ्गस्याक्रियायां तु नाssवृत्तिर्नैव तत्क्रिया ॥ इति ।
साङ्ग-प्रधानाङ्गस्योपवीतित्वादैरकरणे साङ्गप्रधानावृत्तिर्न नापि लन्मात्र+रणम् । किंतु विष्णुस्मरणादिप्रायश्चित्तमेवेति वर्धमानः । प्रधानाङ्गस्यैवाकरणे प्रायश्चित्तं न त्वङ्गाङ्गाकरण इति कल्पतरुः । काम्य विशेषमाह संग्रहकारः
काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः । काम्येऽप्युपक्रमादूर्ध्वमन्ये प्रतिनिधिं विदुः ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com