________________
भट्टगोपीनाथ दीक्षितविरचितः
तत्र भक्तिर्द्विविधा मुख्या गौणी चेति । तत्रेश्वरविषयक ईश्वरप्रीतये कर्म कर्तव्यमिति श्रीत्य परपर्यायानुरागाख्यश्चित्तवृत्तिविशेषो मुख्या -भक्तिः । तथा च भक्तिमीमांसासूत्रम् -- सा पराऽनुरक्तिरीश्वर इति । अथातो भक्तिजिज्ञासेति सूत्रोपात्ता भक्तिस्तत्पदार्थः । तस्याः परेति विशेषणम् । परां मुख्यां भक्तिमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः । अत एव परेति गोणी व्यावर्तयतीति तद्भाष्यम् । गौण्या तु समाधिसिद्धिरिति सूत्रे गोणी वृत्तिर्मक्तिः सेवारूपा कथिता | भक्तयेवैिश्वरः - प्रत्यक्षो भवति । तथा च श्रुतिः -- पञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्परापश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमेक्षदावचचक्षुरमृतत्वमिच्छन्निति । स्मृतिरपि --
-स्६
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् । इति ।
ईश्वरप्रणिधानाद्वेति योगसूत्रेऽप्येवम् । प्रणिधानपदं भक्तिपरामिति राजमार्तण्डः । ब्रह्मसूत्रमपि अपि संराधने प्रत्यक्षानुमानाभ्यामिति । अव्यक्तमनि ब्रह्म भक्तया प्रत्यक्षं भवति श्रुतिस्मृतिभ्यां तथाऽवगमादिति तदर्थः ।
भक्त्या त्वनन्यया शक्य. अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।।
इति भगवद्वचनमपि । अत्र प्रवेष्टमित्यनेन ब्रह्मभावाख्यो मोक्ष उच्यते सोऽपि भक्त्यैव लभ्य इत्यर्थः । चित्तशुद्धिविधुरस्य बाह्यशुद्धिवैफल्य
माह व्यासः
-
गङ्गातोयेन सर्वेण मृद्भाव नगोपमैः ।
आमृत्यु चाऽऽचरञ्शौचं चित्तदुष्टो न शुध्यति ॥ इति ।
स एव
शौचं हि द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं नाव शुद्धिस्तथाऽऽन्तरम् ॥ इति । भावशुद्धिश्चित्तशुद्धिचित्तसंस्कार इति यावत् । चित्तसंस्कारानाह
बृहस्पतिः—
-
दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com