Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 216
________________ उपोद्घातः । सरस्वतीदृपद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते || कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष एव ब्रह्मदेशो ब्रह्मावर्तादनन्तरम् ॥ हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ आ समुद्रात्तु वै पूर्वादा समुद्रात्तु पश्चिमात् । तयोरेवान्तरं गियर्यावर्त विदुर्बुधाः ॥ कृष्णसारै मृगदमै चातुर्वण्र्याश्रमैर्यवैः । रुमृद्धो धर्मदेशः स्यादाश्रयेरन्विपश्चितः ॥ शूद्रराज्येऽपि निवसेद्यत्र मध्ये तु जाह्नवी | सोऽपि पुण्यतमी देशोऽनार्थैरपि समाश्रितः । कावेरी तुङ्गभद्रा च कृष्णा वेणी च गौतमी । भागीरथीति विख्याता एव गङ्गाः प्रकीर्तिताः । एताभिः संयुतो देशः सोऽपि पुण्यः प्रकीर्तितः ॥ इति । विनशनं सरस्वत्यन्तर्धानदेशः । पुराणान्तरेऽपि - यत्र भीमा गौतमी च कृष्णा वेणी च जाह्नवी | कावेरी तुङ्गभद्रा च स देशः पुण्य ईरितः || इति संक्षेपतो देशा उक्ताः । अथ प्रकीर्णकम् । वसिष्ठः स्नातोऽधिकारी भवति दैवे पित्रये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिदर्शितः ॥ इति । पवित्रशब्देनात्र मन्त्रा उच्यन्ते । जपपदसाहचर्यात् | पवित्रं पुनातेमन्त्रः पवित्रमुच्यत इति निरुक्ताश्च । दक्षोऽपि - अस्नात्वा नाऽऽचरेत्कर्म जपहोमादि किंचन । इति । मार्कण्डेयपुराणे शिरःस्नातस्तु कुत दैवं पित्र्यममथापि वा । इति । अग्निपुराणे - अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम् । आर्द्रेण वाससा वाऽपि मार्जनं कापिलं विदुः ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat २९ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262