Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 220
________________ उपोद्घातः । ३३ अत्र भस्मनोर्ध्वपुण्ड्स्य विहितमतिषिद्धत्वाद्विकल्पः । ऊर्ध्वपुत्रिपुण्योर्यथा संप्रदायं व्यवस्था । पूर्व यत्तिलकित्वं सामान्यत उक्तं तदेताभ्यामुपसंहियते । अभौढपादः सन्कर्म कुर्यात् । तथा च व्यासः - दानमाचमनं होमं भोजनं देवतार्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं तर्पणं तथा ।। इति । इदमन्यकर्मणामुपलक्षणम् । अप्रौढपादः कुर्वीत सर्वकर्माणि संयतः । इति पृथ्वी चन्द्रोदये स्मृत्यन्तरोक्तेः । प्रौढपादलक्षणं तेनैवोक्तम्आसनारूढपादो वा जान्वोर्वा जङ्घयोस्तथा । कृतावसक्थिको यश्च प्रौढपादः स उच्यते ॥ इति । विहितपादविन्यासविशेषोऽत्राऽऽसनशब्दार्थः I तच्च सर्वकर्मसाधारणं पद्मस्वस्तिकार्षासनान्यतमरूपम् । तत्रैव पादारोहणसत्त्वात् । एतादृशान्यतमासनाद्बहिरविहितेन प्रकारेण जङ्घाया बहिर्भावेनेति यावत् । आरूढः स्थितः पादो यस्य स्थापितः पादो येनेति वा । आ, आसनमारूढः पादो यस्य येन देति वार्थः । अत्राऽऽङतिक्रमणार्थः । फलितार्थस्तु पूर्व एव । जान्वोर्जङ्घयोरित्युभयत्र समासैकदेशस्याssरूढपाद इत्येतस्य पदस्यान्वयः । तथा च जान्वोर्जङ्घयोर्वाऽऽरूढपादः मौडपाद इत्यर्थो भवति । कृतावसविथक इत्यत्रापि जान्वोर्जङ्घयोरिति पदद्वयमनुवर्तते । वस्त्रादिना जानुमध्यदेशबन्धनं जङ्घा मध्यदेशबन्धनं वा कृतावसक्थिकशब्दार्थः । योगपट्टधारणमप्यनेन निषिध्यते । पादोपरि पाददाता प्रौढपाद इति हरदत्तः । तन्न— नाssक्रम्य पादं पादेन न च व्यवहितौ करौ । जपेन्न प्रौढपादस्तु न प्रकाशकरः सदा ॥ इति स्मृतिरत्नावल्यां पुनः मौढपादग्रहणात् । जपग्रहणमत्रोपलक्षणम् । अनन्तरोदाहृतवाक्यात् । जानूर्वोरन्तरा कृत्वा सम्यक्पादतलद्वयम् । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ऊरुणोरुपरिष्टात्तु कृत्वा पादतलद्वयम् । ऋजुकायो विशेद्योगी पद्मं तद्धि प्रचक्षते || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262