________________
उपोद्घातः ।
३३
अत्र भस्मनोर्ध्वपुण्ड्स्य विहितमतिषिद्धत्वाद्विकल्पः । ऊर्ध्वपुत्रिपुण्योर्यथा संप्रदायं व्यवस्था । पूर्व यत्तिलकित्वं सामान्यत उक्तं तदेताभ्यामुपसंहियते । अभौढपादः सन्कर्म कुर्यात् । तथा च व्यासः -
दानमाचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादो न कुर्वीत स्वाध्यायं तर्पणं तथा ।। इति ।
इदमन्यकर्मणामुपलक्षणम् ।
अप्रौढपादः कुर्वीत सर्वकर्माणि संयतः ।
इति पृथ्वी चन्द्रोदये स्मृत्यन्तरोक्तेः । प्रौढपादलक्षणं तेनैवोक्तम्आसनारूढपादो वा जान्वोर्वा जङ्घयोस्तथा । कृतावसक्थिको यश्च प्रौढपादः स उच्यते ॥ इति ।
विहितपादविन्यासविशेषोऽत्राऽऽसनशब्दार्थः I तच्च सर्वकर्मसाधारणं पद्मस्वस्तिकार्षासनान्यतमरूपम् । तत्रैव पादारोहणसत्त्वात् । एतादृशान्यतमासनाद्बहिरविहितेन प्रकारेण जङ्घाया बहिर्भावेनेति यावत् । आरूढः स्थितः पादो यस्य स्थापितः पादो येनेति वा । आ, आसनमारूढः पादो यस्य येन देति वार्थः । अत्राऽऽङतिक्रमणार्थः । फलितार्थस्तु पूर्व एव । जान्वोर्जङ्घयोरित्युभयत्र समासैकदेशस्याssरूढपाद इत्येतस्य पदस्यान्वयः । तथा च जान्वोर्जङ्घयोर्वाऽऽरूढपादः मौडपाद इत्यर्थो भवति । कृतावसविथक इत्यत्रापि जान्वोर्जङ्घयोरिति पदद्वयमनुवर्तते । वस्त्रादिना जानुमध्यदेशबन्धनं जङ्घा मध्यदेशबन्धनं वा कृतावसक्थिकशब्दार्थः । योगपट्टधारणमप्यनेन निषिध्यते । पादोपरि पाददाता प्रौढपाद इति हरदत्तः । तन्न—
नाssक्रम्य पादं पादेन न च व्यवहितौ करौ । जपेन्न प्रौढपादस्तु न प्रकाशकरः सदा ॥
इति स्मृतिरत्नावल्यां पुनः मौढपादग्रहणात् । जपग्रहणमत्रोपलक्षणम् । अनन्तरोदाहृतवाक्यात् ।
जानूर्वोरन्तरा कृत्वा सम्यक्पादतलद्वयम् । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ऊरुणोरुपरिष्टात्तु कृत्वा पादतलद्वयम् । ऋजुकायो विशेद्योगी पद्मं तद्धि प्रचक्षते ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com