SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ भगोपीनाथदीक्षितविरचितःसामान्यनिषेधेनैव सिद्ध इदं वचनं कर्माङ्गत्वार्थम् । छलल. क्षणमक्षपादेन गौतमेन न्याय प्रथमाध्याय उक्तम्-वचनविघातोऽर्य. विकल्पोपपत्त्या छलमिति । अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानं छलशब्दार्थः । यथा नवकम्बलोऽयं देवदत्त इति वाक्यस्य नूतनाभिप्रायेण प्रयुक्तस्यार्थान्तरं परिकल्य दूषणदानं नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । नह्यस्य द्वित्वमपि संभाव्यते कुतोऽस्य नवेति । वाक्छलं सामान्यच्छलमुपचारच्छलं चेति त्रैविध्यं छलस्य । तेषां लक्षणानि च तेनैवोक्तानि तानि तत्रैव द्रष्टव्यानि । स्मृत्यन्तरे नैकवासा न च द्वीपे नान्तराले कदाचन । श्रुतिरमृत्युदितं कर्म कदाचिदपि नाऽऽचरेत् ॥ इति । तीपान्तरालशब्दार्थस्तत्रैव--- परितो वेष्टितोऽद्भिस्तु द्वीपमित्यभिधीयते । अनावृतस्तु यो देशः सोऽन्तरालं प्रचक्षते ।। इति । स्मृत्यन्तरे तिलकी कर्म कुर्यात स्नानहोमजपादिकम् । अन्यथा यदि कुर्वीत गायत्र्यष्टशतं जपेत् ।। इति । आपस्तम्बः जपो होमस्तपो यागो नित्यं ब्राह्मणतर्पणम् । वृथा भवति तत्सर्वमूर्ध्वपुण्डूं विना कृतम् ।। सत्यं शौचं जपो होमस्तीर्थदेवादिसेवनम् । तस्य व्यर्थमिदं स यस्त्रिपुण्डूं न धारयेत् ।। इति । स्मृत्यन्तरे न कदाचिन्मृदा तिर्यङ्ग्यसेदूवं न भस्मना ।। इति । ब्रह्माण्ड--- मृत्तिका चन्दनं चैव भस्म लोयं चतुर्थकम् । एभिर्द्रव्यैर्यथाकालमूर्ध्वपुण्ड्रं भवेत्सदा ॥ स्नात्वा पुण्डूं मृदा कुर्याजुत्वा चैव तु भस्मना । देवानभ्यर्य गन्धेन सर्वपापापनुत्तये ॥ जलेन निलकं कुर्याजलान्तः कर्मसिद्धये ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy