SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भट्टगोपीनाथदीक्षितविरचितःकृत्वैकोरी पादतलं विशेद्योग्यधमीरितम् ।। इति तन्त्रोक्तानि लक्षणानि । कूर्मपुराणेऽपि ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे । समासीताऽऽत्मनः पद्मभेतदासनमुत्तमम् ।। उभे कृत्वा पादतले जानूारन्तरा ध्रुवम् । समासीताऽऽत्मनः प्रोकमासनं स्वस्तिकं परम् ।। एकपादमथैकस्मिन्विन्यस्योरुणि सत्तम । आसीनोऽर्धासनमिदं योगसाधनमुत्तमम् ॥ इति । अथवा सुखासनं सर्वत्र कार्यम् । तथा च पृथ्वी चन्द्रोदये स्मृत्यन्तरे दक्षपादतलं वामजान्वधस्तु नियोजयेत् ।। वामपादबलं दक्षजान्वधस्तु नियोजयेत् । एतत्सुखासन नाम सर्वकर्माणि साधयेत् ।। इति । सर्वकर्माणि श्रौतगाह्यस्मार्ततान्त्रिककर्माणि तेषु कर्मसु सुख. करत्वात्साधारणमिदमासनं भवतीत्यर्थः । नामेति प्रसिद्धौ । सांख्यसूत्रमपि स्थिरसुखमासनमिति । यत्स्थिरं सत्सुखसाधनं भवति तदासनमिति तदर्थः । आसनान्याह व्यासः कौशेयं कम्बलं चैव अजिनं पट्टमेव च । दारुज ताडपत्रं वा आसनं परिकल्पयेत् ।। कृष्णाजिने ज्ञानसिद्धिक्षिश्रीाघ्रचर्मणि । कुशासने व्याधिनासः सर्वेष्टश्चित्रकम्बलः ॥ वंशासने तु दारिद्रयं पाषाणे व्याधिरेव च । धरण्यां तु भवेतुःखं दौर्भाग्यं छिद्रदारुजे ॥ तृणे धन यशोहानिः पल्लवे चित्तविभ्रमः ॥ इति । प्रचेताः गोशकुन्मृन्मयं भिन्नं तथा पालाशपिप्पलम् । लोहबद्धं सदेवाऽऽक वर्जयेदासनं बुधः ॥ इति । स्मृत्यन्तरे मुमचर्भ श्यत्नेन वर्जयेत्पुत्रवान्गृही ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy