Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घाता। औंत कर्ममु तु कौशेयकम्बलाजिनाद्यासनापेक्षया दर्भासनमत्यन्त्र प्रशस्तम् । दर्भेष्वासीन इति वचनात् । हस्तयोर्दर्थधारणमुक्तं स्मृत्यन्तरे
श्रौतस्मातानि कर्माणि यावन्तीहोदितानि वै ।
तानि सर्वाणि कुर्वीत सपवित्रकरों द्विजः ।। इति । अत्रिः
उभाभ्यामपि हस्ताभ्यां द्विजेंदर्भपवित्रके ।
धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमान्विते ॥ इति । प्रयत्नेन ब्रह्मग्रन्थिसमन्विते धारणीये इति योजना । द्विगुणी. कृतानां दर्भशिखानां पाशः प्रदक्षिणमर्धावेष्टनं विधाय पश्चाद्भागेन यदा प्रवेश्यते तदा वर्तुलों ग्रन्थिः । स एव यदा प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेण. प्रवेश्यले तदा. ब्रह्मग्रन्थिरितिः हेमाद्रिः। पविलक्षणं. स्मृत्यन्तरे
अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुप्रचित् ।। इति । पवित्रदर्भसंख्यामाह मार्कण्डेयः
चतुभिर्दर्भपिजूलैब्राह्मणस्य पवित्रकम् ।
एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥ इति । गरुडपुराणे
सर्वेषां वा भवेद्वाभ्यां पवित्रं. ग्रथिवं न वाः । इतिः ।। बोधायन:
हस्तयोरुभयो द्वावासनेऽपि तथैव. च. ।। इति । स्मृत्यन्तरें
दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरमयः ।
अयातयामान्येतानि नियोज्यानि पुनः पुनः ॥ इति ।। वयंदर्भा उक्ता हारीतेन
पथि दर्भाश्चितौ दर्भा ये दर्भा' यज्ञभूमिषु ।। स्तरणासनपिण्डेषु तेषां त्यागो विधीयते ॥ इतिः।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262