Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 212
________________ २६ उपोद्घातः। साभिप्रायकृतं कर्म यत्किचिज्ज्ञानवर्जितम् । क्रीडाकव बालानां तत्सर्व निष्प्रयोजनम् ।। इति । चतुर्विशतिमतेऽपि हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रियाः। अपसगतिऔन्यः पश्यन्नपि च पङ्गुलः ।। इति । मनुरपि विधिदृष्टं तु यत्कर्म करोत्यविधिना तु यः । फलं न किंचिदामोति क्लेशमात्रं हि तस्य तत् ॥ इति । ज्ञानाभावेऽपि श्रद्धा चेन्नातीव व्यर्थ भवति । तस्या अप्यभाये तु व्यर्थमेव । तथा च व्यासः ज्ञानेन श्रद्धया चैव कृतं कर्मातिसिद्धिदम् । नास्ति तत्र यदि श्रद्धा सर्वथा निष्फलं भवेत् ॥ इति । तत्र तयोनिश्रद्धयोर्भध्य इत्यर्थः । श्रद्धाया अभावेऽनिष्टं भवतीति श्रुतिराह--यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टमइधत इति । गालबोऽपि-- श्रद्ध यैव हि कर्तव्यं जपयागार्चनादिकम् । अन्यथाद्भवेद्वयर्थ भस्मनि न्यस्तहव्यवत् ।। इति । न्यासः-- धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् । पुंसामश्रद्दधानानां न धर्मो नापि तत्फलम् ।। इति । श्रद्धास्त्ररूपमाह व्यास:--- ___ श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता तथा । इति । श्रद्धामाहात्म्यं श्रुतौ-श्रद्धयाऽग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मुनि । वचसा वेदयामसि । इति । शास्त्रार्थे विश्वास परम्परयाऽऽस्तिक्यबुद्धिः श्रद्धा । सर्वकर्माणि भक्त्यैव कर्तव्यानि। तथा च व्यास:---- भक्त्यैव सर्वकर्माणि कर्तव्यानि मनीषिभिः । अन्यथा निष्फलानि स्युर्बालानां क्रीडनं यथा ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262