Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भष्टगोपीनाथदीक्षितविरचित:-- यजनं त्रिविधं सात्त्विकं राजसं तामसं च
अफलाकाङ्गिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। विधिहीनमसृष्टान्न मन्त्रहीनमदाक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। इति । यजनफलमुक्तं हारीतेन
यज्ञेन लोका विमला विभान्ति यज्ञेन देवा अमृतत्वमाप्नुयुः । यज्ञेन पापैर्वहुभिर्षिमुक्तः प्रामोति लोकान्परमस्य विष्णोः ।। नास्त्ययज्ञस्य लोको चै नायज्ञो विन्दते शुभम् ।
अयज्ञो न च पूतात्मा नश्यति च्छिन्नपर्णवत् ॥ इति । भारते
सुशुदैर्यजमानस्य ऋत्विग्भिश्च यथाविधि । शुद्धद्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥ तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् । श्रेष्ठः स्याद्देवसंघेषु यज्वा यज्ञफलं लभेत् ।। देवाः संतोषिता यज्ञैर्लोकान्संवर्धयन्त्युत । उभयोर्लोकयोदेवि भूतियज्ञैः प्रहश्यते । तस्माद्यज्ञादिवं याति पूर्वजैः सह मोदते ॥ नास्ति यज्ञसमं दानं नास्ति यज्ञसमो विधिः ।
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः ।। इति । सर्वकर्माणि ज्ञात्वैव कर्तव्यानि । तथा च व्यासः
ज्ञात्वा कर्माणि कुर्वीत विशिष्टं फलमश्नुते । इति । उद्गीयोपासनाप्रकरणे छान्दोग्योपनिपद्यपि-यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति । ज्ञानजन्यं फलं स्वतन्त्रमेवेत्यपि तत्र तत्राऽऽम्नायते- य उ चैनमेवं वेदेति । ज्ञानरहितं कर्म निष्फलमित्या. हाङ्गिराः--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262