SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ भष्टगोपीनाथदीक्षितविरचित:-- यजनं त्रिविधं सात्त्विकं राजसं तामसं च अफलाकाङ्गिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। विधिहीनमसृष्टान्न मन्त्रहीनमदाक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। इति । यजनफलमुक्तं हारीतेन यज्ञेन लोका विमला विभान्ति यज्ञेन देवा अमृतत्वमाप्नुयुः । यज्ञेन पापैर्वहुभिर्षिमुक्तः प्रामोति लोकान्परमस्य विष्णोः ।। नास्त्ययज्ञस्य लोको चै नायज्ञो विन्दते शुभम् । अयज्ञो न च पूतात्मा नश्यति च्छिन्नपर्णवत् ॥ इति । भारते सुशुदैर्यजमानस्य ऋत्विग्भिश्च यथाविधि । शुद्धद्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥ तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् । श्रेष्ठः स्याद्देवसंघेषु यज्वा यज्ञफलं लभेत् ।। देवाः संतोषिता यज्ञैर्लोकान्संवर्धयन्त्युत । उभयोर्लोकयोदेवि भूतियज्ञैः प्रहश्यते । तस्माद्यज्ञादिवं याति पूर्वजैः सह मोदते ॥ नास्ति यज्ञसमं दानं नास्ति यज्ञसमो विधिः । सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः ।। इति । सर्वकर्माणि ज्ञात्वैव कर्तव्यानि । तथा च व्यासः ज्ञात्वा कर्माणि कुर्वीत विशिष्टं फलमश्नुते । इति । उद्गीयोपासनाप्रकरणे छान्दोग्योपनिपद्यपि-यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति । ज्ञानजन्यं फलं स्वतन्त्रमेवेत्यपि तत्र तत्राऽऽम्नायते- य उ चैनमेवं वेदेति । ज्ञानरहितं कर्म निष्फलमित्या. हाङ्गिराः-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy