SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उपोदघातः । प्रधानं वैदिकं कर्म गुणभूतं तथेतरत् । गुणनिष्ठः प्रधानं तु हित्वा गच्छत्यधोगतिम् ॥ पतिते निष्कृतिर्दृष्टा क्रियाहीने न निष्कृतिः । तस्मात्सर्वप्रयत्नेन क्रियायुक्तो भवेन्नरः ॥ इतेि । गुणेष्वेव निष्ठा यस्य सः । शङ्खः— मनुः वेदमणिहितो धर्मो धर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात्स्वयंभूरिति शुश्रुम । यो वैदिकमनादृत्य कर्म स्मार्तेतिहासिकम् । मोहात्समाचरेद्विप्रो न स पुण्येन युज्यते ।। इति । पराशरः - इदं चिकीर्षतां कर्म सामर्थ्यं प्रतिपाद्यते । सहजागन्तुभेदेन द्विविधं सहजं पुनः ।। उत्साहौदार्य तारुण्यशरीरेन्द्रियपाटचैः । आगन्तुकं द्रव्य संपत्स्मृतिवाक्यैः प्रपञ्च्यते ॥ इति । - षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ इति । प्रतिग्रहे विशेषश्चतुर्विंशतिमते सीदंश्चेत्प्रतिगृह्णीयाद्ब्राह्मणेभ्यस्ततो नृपात् । ततस्तु वैश्यशूद्रेभ्यः शङ्खस्य वचनं यथा ।। इति । नारदोऽपि श्रेयान्प्रतिग्रहो राज्ञां नान्येषां ब्राह्मणादृते । नैतयोरन्तरं किंचित्प्रजाधर्मादिरक्षणात् ॥ इति । राजप्रतिग्रहनिषेधास्तूच्छास्त्रवर्तिराजत्रिषयाः । यदाह मनुः यो राज्ञः प्रतिगृह्णीया लुब्धस्योच्छखरर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat २३ www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy