________________
२२
भट्ट गोपीनाथदीक्षितविरविनः
कर्मणामेतदध्याह्मार्पणमनुत्तमम् ॥ कार्यमित्येव यत्कर्म नियतं सङ्गवर्जिनम् । क्रियते विदुषा कार्य तद्भवेदपि मोक्षदम् ॥ अथवा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः । अकृत्वा फलसंन्यासं वध्यते तत्कलेन तु ।। तस्मात्सर्वप्रयत्नेन त्यक्त्वा तत्कर्मजं फलम् । अविद्वानपि कुर्वीत कर्मणाऽऽमोति तत्पदम् || इति । ब्रह्मार्पणबुद्धया कर्मकरणे फलबाहुल्यमपि ।
तदुक्तं व्यासेन
वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेव देवेन्द्रत्वादिकं फलन् । इति । तस्माच्वतुर्विधपुरुषार्थोऽपि परमेश्वरमीत्यैव भवतीति ज्ञेयम् । ज्ञानिना फलाभिसंधिराहित्येन कर्मसु कृतेष्वपि तानि कर्माणि ज्ञानिनंं. नैव लिम्पन्ति ।
-
तदुक्तं दृष्टान्त पहितं वेदान्तपदीपिकायाम्
अशं कर्षाणि लिम्पन्ति तज्ज्ञं लिम्पन्ति तानि न । करे तु सज्जते तैलं जिह्वायां तु न सज्जते ॥ इति । ज्ञानिनोऽपि कर्मकर्तव्यता व्यास पूत्रेऽप्युक्ता विहितत्वाच्चाssश्रमकर्मापीति । न केवलं निषिद्ध कर्म वर्जनं किंतु वर्णाश्रमविहित कर्मकरणमपि ।
-
पश्यन्नामिमात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्तु नियतमानन्दोत्माप्नुयात् ॥
इति कौषीरवश्रुतौ विहितत्वात् । अपिशब्दो वर्णधर्मसमुच्वयार्थ इति सूत्रार्थ: । सांख्यसूत्रमपि स्वस्वाश्रनविहितकर्मानुष्ठानमिति । कर्मशब्देनात्र यमनियम योर्ग्रहणम् । जितेन्द्रियत्वरूपः प्रत्याहारोऽपि सर्वाश्रमसाधारणतया कर्ममध्ये प्रवेशनीयः । तथा च पातञ्जलसूत्रे - ज्ञानसाधन. तया प्रोक्तान्यष्टौ योगाङ्गान्यत्रापि लग्यानीति तद्भाष्यम् । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानीति पातञ्जलसूत्रं सांख्यसूत्रभाष्ये यत्मदर्शितं तदेतदिति द्रव्यम् । योगस्येति शेषोऽत्र ज्ञेयोऽथत् । स्मृत्यन्तरे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com