________________
उपोद्घातः ।
एतानि वचनानि च काम्यकर्मविषयाणि ।
यस्य नित्यानि लुप्तानि तथैवाऽऽगन्तुकानि च । विपत्तिस्थोपि न स्वर्गे गच्छेत्तु पतितो भवेत् ॥ तस्मात्त्वग्भिः फलैर्मूलैर्मधुनाऽन्यरसेन वा । नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत् ॥ इति बोधायनेन नित्यानां सोमयागादीनां यथाशक्त्यनुष्ठानबोधनात् ।
अग्निष्टोमादिकैर्यज्ञयों यजत्यल्पदक्षिणैः ।
स नाऽऽप्रोति सति द्रव्ये फलं दोषं च गच्छति ।। इति
स्मृत्यन्तरे द्रव्यसत्त्व एव स्वल्पदक्षिणानिषेधस्य स्पष्टृतयोकात्वाच्च । तन सर्वाणि कर्माणीश्वरार्पणबुद्धचैव कर्तव्यानि । तथा च भगवद्गीतासुयत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति ।
यत्तपस्यसि राम स्वमिति पाद्म शिवगीतासु तृतीयपादपदः । कुर्वीत सतते कर्मानाशोऽसङ्गो मदर्पणम् । इति गणेशगीतास्वप्युक्तम् ।
ब्रह्मपुराणेऽपि
ब्रह्मण्याधाय कर्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ इति ।
२१
ब्रह्मण्याधानं ब्रह्मार्पणमिति व्याख्यातारः । कामवर्जित इत्युक्त्या
फलाभिसंधिराहित्यं प्रदर्श्यते । ब्रह्मार्पणशब्दार्थस्तत्रैव प्रदर्शितःब्रह्मणा दीयते देवं ब्रह्मणा संगृह्यते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ना कर्ता सर्वमेतद्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः । करोति सततं बुद्धया ब्रह्मार्पणमिदं परम् ।। यद्वा फलानां संन्यासं प्रकुर्यात्परमेश्वरे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com