________________
भहगोपीनाथदीक्षितविरचितःच वेदाध्ययनं तन्नियते तेषामेव ब्राह्मणविहिता यज्ञा येषु कायमविप्रतिषिद्धं येषां च प्रकृतिलिङ्गानि यज्ञाः श्रूयन्ते त्रीणीते मन्त्र कृती वृणीते यषि मन्त्रकृतो वृणीत इति विज्ञायते गायत्रिया ब्राह्मणस्य परिदध्यात्रिष्टुभा राजन्यस्य जगत्या वैश्यस्येति तेषामग्रिहोत्रं दर्शपूर्णमासौ च नियतौ सोमेज्या ब्राह्मणस्याऽऽधानादग्निहोत्रं दर्शपूर्णमासी च नियताविति । तथा-तथाजीवपितुरिति । नियम्येते इल्याकृष्यते । यस्य त्रैवर्णिकस्यान्त्ययोर्वा योऽयं नियम उक्तः स तु तेषां मध्ये तथाजीवपितुरेव नान्यस्य नियमः । लथा नियताग्निहोत्रदर्शपूर्णमासकारिणी जीवौ पितरौ यस्य स तथा । यदि पितरौ जीवतस्तर्हि ताभ्यामाधानादित्रये कृत एव पुत्रस्याधिकारो नान्यथा । तयोरकृताधान योरन्यतरस्य मरणे सत्येवाधिकार इत्यर्थः । भरद्वाजः-न जीवपितुरनयाधानं विद्यत इत्येक विद्यत इत्यपरमिति । इदं च पितुरधिकारसत्वेऽपि द्रष्टव्यम् । सूत्रे तृतीयप्रश्न उपक्रमादितरे नियम्येरनिति । अग्निहोत्रदर्शपूर्णमासव्य. तिरिक्ताश्चातुर्मास्यादिनित्यपदार्था इतरशब्देन ग्राह्यः । कात्यायन:अथातोऽधिकारः फलयुक्तानि कर्माणि सर्वेषामविशेषान्मनुष्याणां वाss, रम्भसापादनहीनाश्रोत्रियपण्ढशूद्रवर्ज ब्राह्मणराजन्यवैश्याना श्रुतेः स्त्री चाविशेषाद्दर्शनाचेति । द्रव्यसंपत्तावेव सोमयागः कार्यः । सथा च मनु:--
यस्य त्रैवार्षिक बित्तं पर्याप्तं भृतिवृत्तये ।
अधिकं वाऽपि यस्य स्यात्स सोमं पातुमर्हति ॥ इति । मत्स्यपुराणे
अन्नहीनो दहेद्राष्ट्र मन्त्रहीनस्तु ऋत्विजः ।
आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥ इति । मनु:
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । नत्वल्पदक्षिणैर्यज्ञैर्यजेताथ कथंचन ॥ इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजां पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मानाल्पधनो यजेत् ॥ माक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com