________________
उपोद्घातः। विहितस्याननुहानानिन्दितस्य च सेवनात् ।
अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ।। इति । आधानमत्रे- कर्मभिनिःश्रेयसं तानि शब्द लक्षणानि धार्यन्ते वैदि काना शब्दाना स्मृतिग्रहणानि लौकिकानि कर्मणाऽभ्युदयोऽकर्मण्य. प्रत्यवायो नियतानां त्वकर्मणि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानीति । निःश्रेयसमित्यत्राचतुति सत्रेण कर्मधारयेऽकारान्तता । तानि कर्माणि शब्दो निरपेक्षा विधिप्रत्ययश्रुतिर्लक्षणं प्रमाणं येषां तानि । विधिहि विधेयकर्मणि फलसाधनतां विना न पर्यवस्यतीति भावः । तानि निःश्रेयससाधनानि धार्यन्तेऽवधार्यन्ते । कुतो यतः शब्दा विविदिपन्तीत्यादयो विविदिपायुत्पत्तिद्वारा निःश्रेयससाधनत्वे प्रमाः णानि । कर्मणाममामान्येऽपि नि श्रेयससाधनप्रमाणोपकारकत्वान्निःोय. ससाधनानीत्यवधार्यन्त इति भावः । वैदिकाना शब्दाना स्मृतिग्र. हणानि लौकिकानीत्यत्र तानि शब्द लक्षणानि धार्यन्त इत्यनुवर्तते । लौकिकान्यपि कर्माणि तानि तादृशनिःश्रेयससाधनानि शब्दलक्षणानि. धार्यन्त इत्यन्वयः । ननु तथा लौकिकेषु श्रुत्यभाव इत्युक्तं तत्राऽऽहवैदिकानामित्यादि । मन्त्रव्राह्मणरूपस्य वेदस्यैकदेशभूताः केचित्कचि. न्मन्त्रा एव कचिद्विधय एव कचिन्नोभयं किंतु वैवानिककर्मप्रकरणगता. र्थवादमन्त्रावयवा एव प्रसङ्गन सिद्धार्थानुवादिनस्ते वैदिकाः शब्दास्ते सार्थानां या जायन्ते स्मृतयो मन्वादीनां सर्ववेददर्शिनां ताः स्मृतयः एव ग्रहणानि प्रमाणानि येपा तानि तथा । तेषां कर्मणां कर्मणाऽनुष्ठानाभ्युदयः फलं प्राप्यते । येषां चाकर्मण्यननुष्ठाने च न प्रत्यवाय:श्रूयते तान्यनियतानि तेषां त्वित्यर्थः । अश्रुतानुष्ठाननिमित्तानां कर्मणामनियमेनेच्छायामनुष्ठानम् । अनिच्छायां नेति तान्यनियतानि तेषामकर्मण्यननुष्ठाने न प्रत्यवायो भवति । तस्मादश्यं वाक्येनैवाभ्युदयलक्षणं यद्यत्र विहितं तत्र कर्मणाऽनुष्ठानेन भवेदित्यावेद्यत इति व्याख्यातृभिनिकृष्टः सूत्रार्थो वर्गितः । येषां प्रागभावानां प्रतियोगि. भने कर्मणि निषिद्धक्रिणको दोषः प्रत्यवायापूर्वमिति तानि प्रागभावपरिपालनरूपाणि कर्माणि नियतानि नियमेनानुष्ठेयानि नियतफलानि च। येषां विहितानामकर्मणि कर्मणो विरुद्ध प्रागभावपरिपालनरूप उपालम्भो निन्दा लोके स्मृतिशिष्टरूपे तान्यपि नियमेन कर्तव्यानि नियतफलानीत्यर्थः । अन्यच्च तत्रैव-तत्कारितस्वाहाह्मणराजन्ययोर्वैश्यस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com