________________
भट्टोपीनाथदीक्षितविरचितःतत्र सामान्येनाधिकारिणं वर्णयन्ति न्यायविदः-अर्थी समर्थो विद्वाञ्शास्त्रापर्युदस्तस्तत्राधिकारीति । शास्त्रशब्दस्तदनुसारिमीमांसादिप. रोऽपि । वेदपरोऽपि कचित् । शास्त्रयोनित्वादिति सौत्राबीहिशास्त्रं यवशास्त्रीमत्यादितान्त्रिककृतान व्यवहारात् । उक्तं च भामत्याम्
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतशेन वा ।
पुंसां येनोपदिश्येत तच्छ स्त्रमभिधीयते ।। इति । तृतीयप्रश्ने सूत्रे तेपामेव ब्राह्मणविहिता यज्ञा येषु कायमविप्रतिषिद्धं यथा द्रव्यवत्ता शरीरकान्य वेति । येषु त्रैवर्णिषु यज्ञस्य साङ्. गस्य कात्न्य विद्वत्ताऽर्थवत्ता तथा शरीरकास्य शरीरदाढयं सवर्णस्त्रीपरिग्रह ऋत्विगादिसंपत्तिपत्यता तेषामेव यज्ञा न तु परमुखेण पृष्ट्वाऽपि कर्तारो भवन्ति । तथाऽथ संपादयिष्यामीति । अत एव
यस्य त्रैवार्पिक धान्यं स तु सोमं पिद्विजः । इत्यादि स्मयते । तथा स्त्री नासवर्णा मन्त्रपाठमात्रवती सत्यप्यधिकृता । तेषां वर्णिकानां स्त्री पुंवञ्च पुनास्त्रि यति सूत्राभ्यामेकशंषेण तेषां त्रैवर्णिक्यः स्त्रियोऽपि गृह्यन्ते । एवकारः फलकामिनामपि शूद्राणाम. न्याधानादिप्रापकलिङ्गनिरासार्थः । ब्राह्मणेन विहिता ब्राह्मणवि. हिताः । ब्राह्मणेनेति स्मातधर्माणां शुदेऽपि प्राप्तिनिवारणार्थम् । ब्राह्म
न विहिताः श्रौता एव स्फुटयितुं यज्ञा इत्युक्तम् । यज्ञशब्देन श्रोतत्वेनोपलक्षिता अग्न्याधानादयो गृह्यन्ते । तथा शरीरकात्स्न्यं येषामगानुष्ठानमविप्रतिषिद्धं न विरुद्धं तेपामेव ते यज्ञा नान्येपामन्धपगुमूकबधिराश्रोत्रियाकिंचनानामाज्यावेक्षणविष्णुक्रमणमन्त्रोचारगसंबोय. नयाजमानदक्षिणासु यज्ञाङ्गेषु विरोधोऽन्यथा स्यात् । अनधीतस्थापि त्रिवृमिष्टुत्पायश्चित्तत्वेन विहितः साधुत्तस्याग्न्याधानादिकर्मसाद्गुण्णय, तनो भवति तस्याधिकारो नित्यनैमित्तिकेषु । अकिंचनस्यापि नित्येविष्टिपशुचातुर्मास्येषु सोमेष चान्वाहार्थमात्रस्य दक्षिणात्वस्य विधास्य. मानत्वात्प्रतिप्रसवः । तथा मृतभार्यस्य दारऋर्माशक्तस्य स्वार्थमाधानं कल्पसूत्रे वक्ष्यते तस्य विना भार्ययाऽपि । कल्पसूत्र एव पक्षे पत्नी निर्मन्थ्येन दहन्तीति तत्राप्यग्नयः स्वार्थमेव स्थापनीयाः । अनागापि नित्यं कार्य त्रैवर्णिकानामेवाधिकार इति । विहितप्रतिषिद्धयानित्यनैमित्तिकयोर्यथाक्रममकरणे करणे च दोष उत्तो याज्ञवलयेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com