________________
सपोद्घाता। अतीक स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य च रूपतः साम्यं सारूप्यम् । इयमेव साहितेत्युच्यते । समानर्धितेत्यर्थः। सगुणं देवतारूपम् । अग्रहेणोषास्यदेवतातादात्म्य प्रामोति तदिदं सायुज्यम् । ऊर्ध्वरेतसां स्वाश्रमोक्तधर्मानुष्ठानवतां सामीप्यमिति चतमृणां स्वरूपं ज्ञेयम् । यन्मोक्षप्रदं ज्ञानं सैव विद्येत्युच्यते । तथा च गौडपादीयसूत्रम्-सैव विद्येति । चैतन्यस्वरूपा शक्तिरिति पूर्वसूत्रोपस्थितायाः शक्तस्तस्पदेन परामर्शः । कर्मभिश्चतस्रो वासना मैत्रीकरुणा. मुदितोपेक्षाख्या जायन्ते ताभिश्चित्तशुद्धिरिति । तथा च योगसूत्रम्मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्त. प्रसाद नमिति । इह सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्त इति राजमार्तण्डः । तत्र सुखविषया मैत्री सुखवत्सु । दुःखविषया करुणा दुःखिषु । पुण्यवि. षया मुदिता पुण्यवत्सु । पापविषयोपेक्षा पापिष्विति । एवं व्यवस्थितिविष्णुभागवते प्रसिद्धा । एतासां भावनातश्चित्तप्रसादनं चित्तशोधनं भवतीति द्रष्टव्यम् । ज्ञानदारा कर्मणां मोक्षसाधनत्वम् ।
उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणी गतिः ।
तथैव ज्ञानकर्मभ्यां प्राप्यते शाश्वती गतिः ॥ इत्यत्र यद्यप्युभयोस्तुल्यत्वं प्रतीयते तथाऽपि तमेव विदित्वेति श्रुत्या ज्ञानातिरिक्तस्य साक्षान्मोक्षसाधनत्वनिरासेन कर्मणां परम्परया मोक्षसाधनत्वस्य वेदान्तादिशास्त्रसिद्धान्तसंमतत्वेनात्र सामान्यतः साध. नत्वमादाय तुल्यताया वक्तुं शक्यत्वेन तमेवमितिमुख्यश्रुतिविरुद्धत्वेन च साक्षान्मोक्षसाधनत्वाकल्पनात् । अत एव काशीमरणान्मुक्तिरित्यत्र ज्ञानद्वारैवेति सिद्धान्तितं शास्त्रकारैः। कर्मभिनिःश्रेयसमित्येतत्सूत्रे निःश्रे. यसशब्दार्थों निश्चितं श्रेयो निःश्रेयसं यद्यस्येष्टं तदाप्यत इति न तु मोक्ष आप्यत इति । अथवा कर्मभिर्ज्ञानद्वारा मोक्ष आप्यत इत्यर्थः । अन्यथा तमेव विदित्वेतिश्रुतिविरोधतादवस्थ्यापत्तेः । वार्तिके
यद्यप्यत्र श्रुतेर्ज्ञानं सौन्दर्यावगमे सति । ज्ञानेच्छा स्वयमेव स्यात्तथाऽपि श्रवणादिषु ॥ प्रतिबन्धकपापस्य संक्षये कर्मभिः कृते । माधुर्य पित्तलस्येव जायते वेदनारूचिः॥ ऐहिकामुष्मिकत्वादिभेदोऽप्यूह्योऽनया दिशा ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com