Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 208
________________ उपोद्घातः । एतानि वचनानि च काम्यकर्मविषयाणि । यस्य नित्यानि लुप्तानि तथैवाऽऽगन्तुकानि च । विपत्तिस्थोपि न स्वर्गे गच्छेत्तु पतितो भवेत् ॥ तस्मात्त्वग्भिः फलैर्मूलैर्मधुनाऽन्यरसेन वा । नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत् ॥ इति बोधायनेन नित्यानां सोमयागादीनां यथाशक्त्यनुष्ठानबोधनात् । अग्निष्टोमादिकैर्यज्ञयों यजत्यल्पदक्षिणैः । स नाऽऽप्रोति सति द्रव्ये फलं दोषं च गच्छति ।। इति स्मृत्यन्तरे द्रव्यसत्त्व एव स्वल्पदक्षिणानिषेधस्य स्पष्टृतयोकात्वाच्च । तन सर्वाणि कर्माणीश्वरार्पणबुद्धचैव कर्तव्यानि । तथा च भगवद्गीतासुयत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति । यत्तपस्यसि राम स्वमिति पाद्म शिवगीतासु तृतीयपादपदः । कुर्वीत सतते कर्मानाशोऽसङ्गो मदर्पणम् । इति गणेशगीतास्वप्युक्तम् । ब्रह्मपुराणेऽपि ब्रह्मण्याधाय कर्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ इति । २१ ब्रह्मण्याधानं ब्रह्मार्पणमिति व्याख्यातारः । कामवर्जित इत्युक्त्या फलाभिसंधिराहित्यं प्रदर्श्यते । ब्रह्मार्पणशब्दार्थस्तत्रैव प्रदर्शितःब्रह्मणा दीयते देवं ब्रह्मणा संगृह्यते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ना कर्ता सर्वमेतद्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः । करोति सततं बुद्धया ब्रह्मार्पणमिदं परम् ।। यद्वा फलानां संन्यासं प्रकुर्यात्परमेश्वरे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262