Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्ट गोपी नाथ दीक्षितविरचिनः
-
माहितमाचार्याणां वृत्तसम्यग्विनीतानां वृद्धानमात्मवतालोलु नामदाम्भिकानां वृत्तसादृश्यं भजेतेति । अन्यच्च धर्मसूत्रे नेमं लौकिकमर्थं पुरस्कृत्य धर्माश्श्वरेत्तद्यथाऽऽम्रे फलार्थे निर्मिते छायागन्धावनुत्पश्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्त इति । बोधायनः -- उपदिष्टो धर्मः प्रतिवेदं तस्यानुव्याख्यास्यामः स्मात द्वितीयस्तृतीयः शिष्वागम इति । उपदेशो वेदस्तेन कर्तव्यतया विहितो वैतानिक इति यावत् । प्रतिद् प्रतिशाखम् । नहि वेदे समुदायरूपेणैकाकारक एव प्रयोगो विधीयते किंतु नाना । प्रयोगः प्रतिपूरुपमेकैक एव । तत एकशाखया स्वेन व्याख्यातस्तस्यानु तमनु तं प्रातिशाख्यमर्थमन्वित्यर्थः । तच्छाखीयं स्मार्ते तच्छाखीयं शिष्टाचारलक्षणं धर्मे व्याख्यास्यामः । तावपि नियतौ श्रुतिशास्वमित्यर्थः । मनुरपि -
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषराणिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यथ ॥ अनाश्नातेषु बेदेषु कथं स्यादितिचेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ इति । बोधायनोऽपि -
धर्मशास्त्ररथादा वेदखड्गधरा द्विजाः ।
क्रीडार्थमपि यद्ब्रूयुः स धर्मः स्यादशङ्कितः ॥ इति ॥ विश्वामित्रोऽपि -
यमार्या: क्रियमाणं हि शंसन्त्यागमवेदिनः । म धर्मो यं विगर्हन्ति तमधर्मे प्रचक्षते || वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः । शिष्टाचारः स्मृतो यस्तु त्रिविधं धर्मलक्षणम् ॥ इति ।
आपस्तस्त्रः-
-
यं शिष्टा ब्राह्मणा ब्रूयुः स धमा मानुषः स्मृतः । आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेत्ति तत्रतः ॥ इति
पुराणन्यायमीमांसा धर्मशास्त्रार्थचिन्तकाः ।
शारदापुराणे-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262