Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 202
________________ उपोद्धातः। भोक्तुं यया क्रियया सा संस्थेत्ति । अथवा विजातीयप्रत्यवायोत्पत्तिप्रतिबन्धकत्वं संस्थात्वमिति लक्षणं भेदकं द्रष्टव्यम् । सोममुणकं कर्म सोम इत्युच्यते । तत्साध्या यज्ञाः सोमयज्ञास्तद्रूपाः संस्था इत्यर्थः । सप्त पाकयज्ञसंस्था इत्यत्र पाकयज्ञसंस्थाः सप्तेत्यन्वयः । पाकयज्ञसंस्था उद्दिश्य सप्तत्वं विधीयते । तच्च सप्तत्वं लक्षणया सप्तान्यतमत्वम् । उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण विधेयस्योद्देश्यतावच्छेदकव्यापकत्वबोधो व्युत्पत्तिसिद्धः । उद्देश्यतावच्छेदकं पाकय. ज्ञसंस्थात्वम् । विधेयतावच्छेदकं सप्लान्यतमत्वम् । तथा च पाकयज्ञसंस्थाः सप्तान्यतमा इत्यर्थ आधिक्यव्यवच्छेदसिद्धिः । एतेन सिद्धयसिद्धिव्याघातो निरस्तः।न्यूनत्वव्यवच्छेदस्तु सप्तत्वान्वयादेव लभ्यते । एवं हविर्यज्ञसंस्थासोमयज्ञसंस्थास्वपि द्रष्टव्यम् । विविदिषासंस्कारपक्ष. योरवान्तरविशेषो विस्पष्टमुक्तो वार्तिकसारे जाता विविदिषाऽश्यं संपाद्याखिलसाधनम् । सफलं जनयेदाशु बुभुक्षादिर्थथा तथा । प्रतिबन्धकपाप्मानं नाशयश्चित्तसंस्कृतिः । साधनानि तु बोधस्य संपाद्यानि तु यत्नतः ।। वर्णाश्रमादिशास्त्रेण परितोऽकरणे भयम् । पश्यन्करोति यत्कर्म तत्संस्कारकमुच्यते ।। तमेवमिति वाक्येन प्रेरितो बोधवाञ्छया । अन्तर्यामिण्यर्पयेद्यस्तत्स्याद्विविदिषाकरम् ।। कर्मणाऽपि न लोकः स्यादित्येवं नित्यकर्मणाम् । फलं श्रुतं तथाऽप्यतेदनेच्छैव तच्छृतेः ॥ नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः । भोगं भगुरमीक्षन्ते बुद्धिशुद्धयनुरोधतः ॥ काम्येष्वपि मुमुक्षुश्चेत्फलं देवे समर्पयेत् । एतद्भगवता प्रोक्तं कर्मबन्धनिवृत्तये ।। यत्करोपि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262