________________
उपोद्धातः। भोक्तुं यया क्रियया सा संस्थेत्ति । अथवा विजातीयप्रत्यवायोत्पत्तिप्रतिबन्धकत्वं संस्थात्वमिति लक्षणं भेदकं द्रष्टव्यम् । सोममुणकं कर्म सोम इत्युच्यते । तत्साध्या यज्ञाः सोमयज्ञास्तद्रूपाः संस्था इत्यर्थः । सप्त पाकयज्ञसंस्था इत्यत्र पाकयज्ञसंस्थाः सप्तेत्यन्वयः । पाकयज्ञसंस्था उद्दिश्य सप्तत्वं विधीयते । तच्च सप्तत्वं लक्षणया सप्तान्यतमत्वम् । उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण विधेयस्योद्देश्यतावच्छेदकव्यापकत्वबोधो व्युत्पत्तिसिद्धः । उद्देश्यतावच्छेदकं पाकय. ज्ञसंस्थात्वम् । विधेयतावच्छेदकं सप्लान्यतमत्वम् । तथा च पाकयज्ञसंस्थाः सप्तान्यतमा इत्यर्थ आधिक्यव्यवच्छेदसिद्धिः । एतेन सिद्धयसिद्धिव्याघातो निरस्तः।न्यूनत्वव्यवच्छेदस्तु सप्तत्वान्वयादेव लभ्यते । एवं हविर्यज्ञसंस्थासोमयज्ञसंस्थास्वपि द्रष्टव्यम् । विविदिषासंस्कारपक्ष. योरवान्तरविशेषो विस्पष्टमुक्तो वार्तिकसारे
जाता विविदिषाऽश्यं संपाद्याखिलसाधनम् । सफलं जनयेदाशु बुभुक्षादिर्थथा तथा । प्रतिबन्धकपाप्मानं नाशयश्चित्तसंस्कृतिः । साधनानि तु बोधस्य संपाद्यानि तु यत्नतः ।। वर्णाश्रमादिशास्त्रेण परितोऽकरणे भयम् । पश्यन्करोति यत्कर्म तत्संस्कारकमुच्यते ।। तमेवमिति वाक्येन प्रेरितो बोधवाञ्छया । अन्तर्यामिण्यर्पयेद्यस्तत्स्याद्विविदिषाकरम् ।। कर्मणाऽपि न लोकः स्यादित्येवं नित्यकर्मणाम् । फलं श्रुतं तथाऽप्यतेदनेच्छैव तच्छृतेः ॥ नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः । भोगं भगुरमीक्षन्ते बुद्धिशुद्धयनुरोधतः ॥ काम्येष्वपि मुमुक्षुश्चेत्फलं देवे समर्पयेत् । एतद्भगवता प्रोक्तं कर्मबन्धनिवृत्तये ।। यत्करोपि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com