________________
भट्टगोपीनाथदीक्षितविरचितः-- ष्यामः । बोधायनस्तु- अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मा स्यानि दाक्षायणयज्ञः कोण्डपायिन्य इति सौत्रामणीमु हैके ब्रुवत इत्येवं सप्त हविर्यज्ञसंस्था आह । अत्रायं विशेषः--यदा दाक्षायणयज्ञस्य संस्थात्वं तदा निरूढपशुबन्धस्य न । एवं कौण्डपायिनीनां संस्थात्वे सौत्रामण्या न । केषांचिदाचार्याणां मते पिण्डपितृयज्ञस्य संस्थात्वम् ।। अस्मिन्मत आग्रयणेष्टेः संस्थात्वं न । लाट्यायनद्राह्यायणयोर्मत पाकयज्ञस्य संस्थात्वम् । अस्मिन्मत आग्रयणेष्टेः संस्थात्वम् । अन्यथा हवि. यज्ञेष्वष्टत्वापत्तेः । न चेष्टापत्तिः। मतभेदेन सप्तत्वोपपत्तावष्टत्वकल्पनाया अनुचितत्वेनेष्टापत्तेर्वक्तुमशक्यत्वात् । एवं चैकसंस्थाविषये विकल्पोऽवशिष्टाः सर्वमते समानाः । पाकयज्ञसंस्थास्वपि शलगवस्य संस्थात्वं गौतममते । केषांचिन्मते वैश्वदेवस्य संस्थात्वम् । अत्रापि यदा शूलगवस्य संस्थात्वं तदा वैश्वदेवस्य न संस्थात्वं यदा वैश्वदेवस्य तदा न शूलगवस्य । वैश्वदेवमेके चैत्रीस्थाने समामनन्तीति वैखानससूत्रा. द्ययाऽन्यतरस्य संस्थात्वं तथा हविर्यज्ञेष्वपि द्रष्टव्यम् । शाखान्तरे श्रूयते चैकशितित्वं संस्थामु । यो ह्येकविंशतिसंस्था न करोति स पापीयान्भ-- वतीति। न चोक्थ्यादिषु कामश्रवणेन नित्यत्वाभावात्संस्थात्वानुपपत्तिः। अनिष्टोमे तु वसन्ते वसन्ते यजेनेति वीप्सया नित्यत्वमपि तेन च संस्थात्वमुपपन्नमेवेति वाच्यम् | अकर्मगि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानीति सूत्रेण बोधायनगौतमायुक्तसंस्थात्वबलेन चैतेषां नित्यत्वस्यापि सिद्धत्वात् । अस्ति च संस्थानामकरणे शाखान्तरे दोषश्रवणम् । यो ोकविंशतिसंस्था न करोति स पापीयान्भ. वीति । पापीयस्त्वादे। निन्दाऽपि । निन्दितस्य स्वधःपतनम् । आह. च याज्ञवल्क्यः --
विहितस्याननुष्ठानानिन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ।। इति । ननु नित्यानां संध्यावन्दनादिकर्मणां संस्थानां च को भेदः, प्रत्यवायनिवर्तकत्वस्योभयत्रापि तुल्यत्वादिति चेत्सत्यम् । भेदसिद्धयर्थे संस्थाजन्यफलेषु वैजात्यस्वीकारान् । एवं च विजातीयफलजनकत्वमेव संस्थात्वमित्येवं लक्षणे सिद्धे भेदोऽपि सिध्यति । संस्थाशब्दो रूटो योगरूढा वा। सम्यक्स्था स्थितिर्वासः स्वर्गलोके विजातीयं फलं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com