________________
उपोद्घातः । मिति गृह्यविहितम् । तस्यैव संस्थात्वात् । तच्च संस्काररत्नमालायाम. स्माभिः साधितमस्ति तत्ततो द्रष्टव्यम् । श्रवणी पाणमासी तत्र कर्तव्यं श्रवणाकर्म । आग्रहायणी गशीपी तत्र कर्नव्यं प्रत्य वरोह णम् । चैत्री तत्र कर्तव्य : शलगवः । आयु... अश्विनी पौ माझी तत्र कर्तव्यमाश्वयुजीकर्म । औपास नहोमस्य संस्कार वैखानसमने । तथा च तत्सूत्रम्-स्थालीपाकोऽष्टका अमाश्राद्धमानहोमः श्रावण्याय हायणी चैत्रीति सप्त पाकर संस्था दैश्वदकमेके चैत्रीस्थाने समामनन्तीति । पाकशब्दः प्रशस्तवाच्यल्पवाची च । पाकयज्ञाः प्रशस्तयज्ञा अल्पयज्ञाश्च । तद्रूपाः संस्थाः पाकयज्ञसंस्था इत्यर्थः । प्रशंसायां पाकशब्दस्तं पाकेन मनसेति मन्त्रे दृष्टः । अल्पत्वे योऽस्मत्पाकतर इत्यस्मिन्मन्त्र। यदि पाकशब्दः पत्तो वर्तत तदा सत्याषाढमूत्रानुसारिभिराश्वयुज्याः मत्रकृता सत्यापाढेनाविहितत्वेन गृह्य न्तरोक्तस्योपासनहोमस्यैव तत्स्थाने स्वीकार्यत्वेन तत्र च पाकामावेन पाकयज्ञसंस्थात्वं शास्त्रान्त. रोत्त.मनुपपन्नं स्यादिति । वढचानामपीदमेवाभिमतम् । अन्यथाऽऽज्य. होमेषु पाकयज्ञानातत्तन्त्रमितिवचनसिद्धं तन्त्रत्वं न स्यादिति । यस्मादेतेषु संस्कारा आम्नातास्तैश्च ब्राह्मण्यमेवाऽऽप्यतेऽतः प्रशस्ता अल्पतन्त्रत्वादल्पाश्च । के पुनस्ते संस्कारा उपनयनाद्याः । तस्मात्सर्वेषां पाकयज्ञत्वमिति । पाकयज्ञपदस्य रूढत्वं लाट्यायनद्राह्यायणाभ्यामुक्तं पाकयज्ञा एकानौ यज्ञा इति । बोधायनोऽपि कर्मान्तसूत्र आह-कियत्यः पाकयज्ञसंस्थाः कियत्यो हविर्यज्ञसंस्थाः कियत्यः सोमसंस्था इति । हुतः प्रहुत आहुतः शूलगो बलिहरणं प्रत्यवरोहणमष्टका अपरिमिता उ हैके ब्रुवते यच्च किंचान्यत्र विहाराद्ध. यते सर्वास्ताः पाकयज्ञसंस्था इति । विहारादन्यत्राविशेषेण यत्किंचि. बेतानेरन्यत्रेत्यर्थः । आश्वलायनोऽपि-त्रयः पाकयज्ञा हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजनं ब्रह्मणि हुतमिति । तत्रानन्तर्गतः पशुर्निरूढस्तस्य बन्धो बन्धनं यस्तिदाख्यं कर्म । सुत्रामदेवताकं सुराग्रहसाध्यं कर्म सौत्रामणी । हविः पुरोडाशचरुसांनाय्यपश्वादि । तत्साध्या ये यज्ञास्ते हविर्यज्ञास्तद्रूपा इत्यर्थः । यद्यप्यग्न्याधाने हविःसाध्यता नास्ति तथाऽपि पवमानेष्टयादिगतहविःसंबन्धमादाय हविर्यज्ञत्वम् । यद्यपि सौत्रामणीद्वयमस्ति तथाऽपि चरकाख्याया एव सौत्रामण्याः संस्थात्वं न कौकिल्या इति विध्यपराधव्याख्याने साधयि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com