Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 190
________________ उपोद्घातः । तत्र लक्षणसमन्वयः । चोदनालक्षणोऽर्थो धर्म इति धर्मलक्षणं कुर्वता जैमिनिनाऽचोदनालक्षणोऽनर्थोऽधर्म इत्यधर्मलक्षणमपि मूचितम् । अन:थेचानिष्टसाधनम् । एवं चाविहितनिषिद्धक्रियात्वमित्यधर्मलक्षण पर्यवस्यति । इष्टानिष्टप्रापके कर्मणी धर्माधर्मावित्युक्तं मत्स्यपुराणे धर्मेति धारणे हेतुर्भहत्त्वे वै प्रपद्यते । धारणेन महत्त्वेन धर्म एव निरुच्यते ।। नेनेष्टप्रापको धर्म आचार्यरुपदिश्यते । इनरोऽनिष्टफलदस्त्वाचार्यरुपदिश्यते ॥ इनि ।। संवर्तस्मृतिरपि देशे देशे य आचारः पारम्पर्यक्रमागतः । आम्नायैरविरुद्धश्च स धर्मः परिकीर्तितः ।। इति ।। याज्ञवल्क्योऽपि इज्याचारदयाहिंसादानस्वाध्यायकर्मणाम् ।। अयं तु परमो धर्मो यद्योगेनाऽऽस्मदर्शनम् ।। इति. स्मृत्यन्तरे धृतिः क्षमा दयाऽस्नेयं शौचमिन्द्रियनिग्रहः । हीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। इति । यद्यपि धर्मः क्षरति कीर्तनादधर्मों वर्धते गोपनादित्यादौ वैशेषिकतन्ने च विहितक्रियाजन्यादृष्टे धर्मशब्दप्रयोगो निषिद्धक्रियाजन्यादृष्टे यधर्मशब्दप्रयोगस्तथाऽपि-- धर्मः स्वनुष्ठिनः पुंसां विष्वक्सेनकथासु च । अधर्ममनुतिष्ठेच्चे नरके पतति ध्रुवम् ।। आचारः परमो धर्मः, अधर्मः स्यादनाचार इत्यादौ तजनकविहितनिषिद्धक्रियादावपि तच्छब्दप्रयोगात्तद्वाचकत्वमपि । __ अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् । इत्यादौ तु ज्ञानेऽपि धर्मशब्दप्रयोगो दृश्यते । धर्मसूत्रे-न धर्माधर्मों पर त आवारस्व इति न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म इति यत्त्वार्याः प्रशश्पन्ति स धर्मो यद्गहन्ते सोऽधर्मः सर्वजनपदेष्वेकान्तस, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262