Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 391
________________ १० महाकवि कालिदास-विरचितं नीलपिङ्ग नोपं कदम्ब कुसुतं दृष्ट्वा समालोक्य तद्विना सारङ्गाश्चातकास्तव मार्ग सूचयिष्यन्ति । च पुनः सारं सलिलं गच्छन्ति , सारङ्गा गजास्ते मार्ग सूचयति(न्ति) । किं कृत्वा ज्ञास्यन्ते ? लक्षणान्याह । कच्छं163 कच्छमनुलक्ष्यीकृत्यानुकच्छमनुनीर प्रथममुकुला उत्पन्नाद्यकोरका: कन्दली164 वनस्पतिविशेषात् दृष्ट्वा ते तवा65 मार्ग सूचयिष्यन्ति अयमर्थो न सुन्दरतरः । यतस्ते गजाः पीवर काया कर्दमाकुलायां सि(शि)लायां, गन्तुमपि न पारयन्त्यतो जीमूतावतारसमया(य) स्तेषां166 न सुखदः । च पुनः सार सत्वर [शीघ्र ]167 गच्छन्तीति सारङ्गा हरिणास्ते पन्थानं मार्ग' सूचयिष्यन्ति । किं कृत्वा? दग्धारण्येषु ग्रीष्मादावप्लुष्ट काननेषु । उाः पृथिया: । अधिकसुरभि गन्धमाघ्राय सुधित्वा168 अधिकश्चासौ सुरभि अधिकसुरभिस्तम् । जलकणपतनात्तत्र सौरभ्याविर्भावः । अयमर्थोऽपि विपश्चितां चेतसि न चमत्करोति । यतो हरिणानां मेघेन सह मैत्रीभावो न । अतश्चातका एव सर्वान् भावान् विदित्वा ते मार्गसूचयिष्यन्ति । कीदृशस्य ते ? जललवमुचः जललवान् मुञ्चतीति जललवमुक्त स्य ॥२१॥ अम्भोबिन्दुग्रहणरभसान् चातकान्वीक्ष्यमाणाः श्रेणीभूताः परिगणनया निर्दिशन्ता बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥२२॥169 सिद्धा गगनचर]170देवविशेषाः। प्रियसहचरी सम्भ्रमालिङ्गय (ङ्गितानि । सोत्कण्ठाईयुक्तायनि [उत्कण्ठायुक्तानि]171 मानयिष्यन्ति अङ्गीकरिष्यन्ति । किं कृत्वा ? स्तनितसमये गर्जारवसमये172 त्वां भवन्तं, आसाद्य प्राप्य । सिद्धाः किं कुर्वाणः १ अम्भोबिन्दुग्रहणरभसान् चातकान् वीक्ष्यमाणाः। अम्भोबिन्दुनां ग्रहणे रभसा [व्यग्रा]173 उत्ताला अम्भोबिन्दुग्रहणरभसास्तान् । सिद्धाः [पुनः कथंभूता.174] , किं कुर्वन्तः ? बाका बिसकण्टिका निर्दिशन्तो दर्शयन्तः । कया ? परिगणनया । परिसामस्त्येन गणना, तया, एक-द्वि-त्रि-संख्यया । कीदृशा बलाका ? श्रेणीभूताः [175अश्रेणयः श्रेणयो जाताः इति श्रेणीभूताः] पङक्तिबद्धाः ॥२२॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लाराङ्गः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २३ हे सखे ! मत्प्रियार्थमस्मद्दयितार्थ, द्रुतमपि शीघ्रमपि176 जिगमिषोस्तव पर्वते पर्वते कालक्षेपं विलम्ब उत्पश्यामि अवलोकयामि । कीदृशे पर्वते पर्वते? ककुभसुरभौ अर्जुनवृक्षसुगन्धि[नि]1771 भवान् त्वम् । कथमपि केनाप्युपायेन । आशुः शीघ्र, गन्तु व्यवसे(स्ये)त् उपायं कुर्यात् । कीदृशो भवान् ? 178शुक्लापागैर्मयूरैः प्रत्युद्यातः प्रत्युद्गतः । किं कृत्वा? केका मयूरवाणी । 179स्वागतीकृत्य वचनैः कुशलप्रश्नं कृत्वा । कीदृशैस्तैः ? सजलनयनै नेत्रोदकयुक्तैः ॥२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502