Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 394
________________ मेघदूतम् भवति । विश्लेषोक्तिः । तां कामयेरिति तात्पर्यम् । किं लक्षणायाः तस्याः १ विचिक्षोभेन 217[क]ल्लोल कम्पनेन स्तनिता शब्दायमाना या विहङ्गश्रेणिः विहङ्गमपक्तिः । सैव काञ्चीगुणो मेखलागुणो यस्याः सा, तस्याः । तस्याः किं कुर्वत्याः ? पाखा(षा)णादो(दौ) स्खलितेन सुभगं यथा स्यादेवं संसर्पन्त्याः, गच्छन्त्याः । पुनः किं लक्षणायाः १ दर्शितावर्तनाभेः, दर्शिता आवर्त एव नाभिर्यया सा तस्याः । कथमाहवानाभावेऽनुरागिता योग्येत्याह । हि स्फुटं निश्चितम । स्त्रीणां प्रियेषु दयितेषु, विभ्रमो विलासः, आद्य प्रथम, प्रणयवचनं स्नेहवाक्यम् ।218 अथ नारीसाधर्म्य. माह । अन्याऽपि कामिनी शब्दावमानरस(श)ना219 सविलासा गच्छन्ती हावभावान्विता पत्याभि दर्शयति220 ॥२९॥ 221वेणीभूतप्रतनुसलिलां तामतीतस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपणे: । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥३०॥ हे सुभग ! येन विधिना, येनोपायेन, सा सिन्धुर्नदो कार्य कृशतां त्यजति, स विधिस्त्वयैव उत्पाद्यो र चनीयः । तत्र त्वं वर्षेरिति । सिन्धुः किं कुर्वती विरहावस्थायाः(स्थया:)222 ? ते तव, सौभाग्य व्यञ्जयन्ती प्रकटयन्ती । कीरशस्य ? तां नदीमतीतस्य । कीदृशी सा ? वेणीभूतप्रतनु सलिला, त्वद्विरहेण वेणीभूतं223 प्रतनुस्वात्सलिलं यस्याः सा । पुनः कीदृशी] १ सिन्धुः तटमहतरुभ्यो भ्रसी(शी नि भ्रष्टानि तटमहतरुभ्र सि(शि)भिः, तै: जीणपणे : जर्जरक्सिलयैः पाण्डुच्छाया । पत्युवियोगेऽन्यापि नारी निजदयितस भाग्यं हदि धरन्ती कृशा पाण्डुरा वा224 भवति ॥३०॥ 225प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धापूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैतमिव दिवः कान्तिमत्खण्डमेकम् ॥३१॥ ततः पश्चात् पूर्वोदि दि)ष्टो टां)226 प्राकथितां विशालामुज्जयिनी पुरीं अनुसर गच्छ । किं कृत्वा ? अवन्तीन् देशान् प्राप्य । कीदृशान् ? उदयन कथासु कोविदा विचक्षणाः श्रीमद्वृद्धा (ग्रामवृद्धा)227 येषु ते तान् । कीदृशी विशालां ? श्रिया रुद्ध्याऽपि विशाला अनल्पा, श्रीविशाला, ताम् । उत्प्रेक्ष्यते । दिव(व:)228 स्वगस्य कान्ति सहित एकमद्वितीयं खण्डमिव 1229 स्वर्ग(ग)कदेशस्य । तत्र कथमागत इत्याह । क्व सति गां गतानां स्वर्गिणां देवानाम् । सुचरितफले उपभुक्वा230 स्वल्पीभूते अल्पीभूते सति कीदृशं खण्ड १ उत्प्रेक्ष्यते-तेषां देवतानां शेषै: सच्चरितः पुण्यैह तमिव भुवमानीतमिव ।।३१।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502